SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ध्यानशतकम् ७८ कर्मक्षयः, अमरसुखानि च, शुभानुबन्धीनि सुकुलप्रत्यायाति-पुनर्बोधिलाभ-भोग-प्रव्रज्या- [केवल-शैलेस्य]पवर्गानुबन्धीनि धर्मध्यानस्य ।। ९३ ।। ____अवचूरिः - प्रथमं धर्मफलमाह - होंति० ।। शुभाश्रव-संवर-निर्जराऽमरसुखानि शुभाश्रवः पुण्याश्रवः, संवरोऽशुभकर्मागमनिरोधः, विनिर्जरा कर्मक्षयः [अमरसुखानि एतानि विपुलानि ध्यानवरस्य ध्यानप्रधानस्य फलानि] शुभानुबन्धीनि सुकुलप्रत्यायाति-पुनर्बोधिलाभ-भोग-प्रव्रज्या-ऽपवर्गानुबन्धीनि धर्मस्य ध्यानस्य ।।९३।। टीका - फलद्वारे प्रथमं धर्मफलमाह - शुभाश्रवः पुण्याश्रवः, संवरो अशुभकर्मागमनिरोधः, विनिर्जरा कर्मक्षयः, अमरसुखानि विपुलानि, धर्मध्यानस्य शुभानुबन्धीनि फलानि भवन्ति ।। ९३ ।। ते य विसेसेण, सुभासवादओऽणुत्तरामरसुहं च । दोण्हं सुक्काण फलं, परिनिव्वाणं परिल्लाणं ।। ९४ ।। अर्थलेशः - [ते य गाथा ।।] अन्यद् अनुत्तरामरसुखं स्यात् । परयो शुक्लध्यानभेदयोः फलं निर्वाणं मुक्ति: स्यात् ।।९६।।। दीपिका - ते च शुभाश्रवादयो विशेषेण द्वयोराद्ययोः परयोः शुक्लयोः फलं परिनिर्वाणं मोक्षः।।९४ ।। अवचूर्णिः - शुक्लमधिकृत्याह - ते च विशेषेण शुभाश्रवादयोऽनुत्तरामरसुखं च द्वयोः शुक्लयोः फलमाद्ययोः, परिनिर्वाणं 'परिल्लाणं' ति चरमयोर्द्वयोः ।। ९४ ।। अवचूरिः - शुक्लध्यानमधिकृत्याह - ते अ० ।। ते च विशेषेण शुभाश्रवादयोऽनुत्तरामरसुखं च द्वयोः शुक्लयोः फलमाद्ययोः परिनिर्वाणम् परिल्लाणं ति चरमयोर्द्वयोः ।।९४ ।। टीका - शुक्लध्यानस्याह - ते चाऽनन्तरोक्ता विशेषेण शुभाश्रवादयोऽअनुत्तरामरसुखं च द्वयोराद्ययोः शुक्लयोः फलं परयोरुत्तरयोः परिनिर्वाणम् ।। ९४ ।। आसवदारा संसारहेयवो, जं ण धम्मसुक्केसु । संसारकारणाई न तो, धुवं धम्मसुक्काई ।। ९५ ।। अर्थलेशः - आसव गाथा ।। आश्रवद्वाराणि पापकर्मबन्धनप्रकाराः संसारहेतवः स्युः । यस्मात् कारणाद् धर्मध्यान-शुक्लध्यानयोर्वर्तमानस्य जीवस्य तानि पापबन्धनद्वाराणि न भवन्ति । तत् कारणाद् ध्रुवं निश्चितं धर्मध्यानशुक्लध्याने संसारकारणे न भवतः ।।९७ ।। दीपिका - आश्रवद्वाराणि संसारहेतवस्तानि धर्मशुक्लयोर्यन सन्ति तस्माद्धर्मशुक्ले संसारकारणे न स्तः ।। ९५ ।। अवचूर्णिः - अथवा सामान्येनैवाह - Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002560
Book TitleDhyanashatakam Part 2
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages350
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy