________________
परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः
७७
अवचूरिः - भावार्थमाह - चालि० ।। चाल्यते ध्यानान्न परीषहोपसर्गैर्बिभेति वा न तेभ्यो धीर इत्यवधलिङ्गम्, सूक्ष्मेसु अत्यन्तगहनेषु न सम्मुह्यति सम्मोहं याति भावेषु पदार्थेषु न देवमायासु अनेकरूपास्वित्यसम्मोहलिङ्गम् ।।९१ ।।
टीका - अवधादीन् विवृण्वन्नाह - चाल्यते ध्यानान्न परीषहोपसर्गैर्न वा बिभेति धीरो दृढ इत्यवधलिङ्गः। सूक्ष्मेषु गहनेषु भावेषु न सम्मुह्यति न देवमायास्वनेकास्वित्यसम्मोहो लिङ्गम् ।। ९१ । ।
देहविवित्तं पेच्छइ, अप्पाणं तह य सव्वसंजोगे । देहोवहिवोसग्गं, निस्संगो सव्वहा कुणइ ।। ९२ ।।
अर्थलेशः - देह लिंगं[विवित्तं ] गाथा ।। ३ - साधुः आत्मानं सर्वसंयोगांश्च देहविविक्तान् देहात् पृथक्भूतान् पश्यति । एतत् विवेकलिङ्गम्, ४- तथा साधुः निःसङ्गः सन् निःपरिग्रहः सन् देहोपधिव्युत्सर्गं सर्वथा करोति, एतद् व्युत्सर्गलिङ्गम् ।।९४।।
दीपिका - ३- आत्मानं देहविविक्तं पश्यति तथा सर्वसंयोगान् विविक्तान् पश्यतीति विवेकः, ४-देहोपधिव्युत्सर्गं, निसङ्गः सर्वथा करोतीति व्युत्सर्गः ।। ९२ ।। गतं लिङ्गद्वा० ११ ।
अवचूर्णिः - देहविविक्तं पश्यत्यात्मानं तथा सर्वसंयोगान् इति विवेकलिङ्गम्, देहोपधिव्युत्सर्गं निःसङ्गः सर्वथा करोतीति व्युत्सर्गलिङ्गम् ।। ९२ ।।
अवचूरि : देह० ।। देहविविक्तं पश्यत्यात्मानं तथा च सर्वसंयोगानिति विवेकलिङ्गम्, देहोपधिव्युत्सर्गं निःसङ्गः करोति इति व्युत्सर्गलिङ्गम् ।। ९२ ।।
टीका
-
-
स्पष्ट । नवरं पूर्वार्धे विवेको लिङ्गम्, उत्तरार्धे व्युत्सर्गः ।। ९२ ।। होंति सुहासवसंवरविणिज्जरामरसुहाई विउलाई । झाणवरस्स फलाई, सुहाणुबंधीणि धम्मस्स ।। ९३ ।।
अर्थलेश: - होंति गाथा ।। धर्म्मध्यानस्य एतानि फलानि भवन्ति । किं विशिष्टानि फलानि ? शुभाश्रवविनिर्जरामरसुखानि शुभानां सातावेदनीयादीनां कर्मणामाश्रवो बन्धः, पापकर्मणां विनिर्जरा मोक्षः अमरसुखानि देवलोक सुखानि तथा विपुलानि विस्तीर्णानि । किं विशिष्टस्य धर्म्मध्यानस्य ? ध्यानवरस्य । किं विशिष्टानि फलानि? [ शुभानुबन्धीनि सुकुलप्रत्यायाति-पुनर्बोधिलाभ-भोग-प्रव्रज्या केवल-शैलेश्य-पवर्गानुबन्धीनि ।। ९५ ।।]
दीपिका - धर्मशुक्लयोः फलमाह - शुभाश्रवः पुण्याश्रवः, संवरो ऽशुभकर्म्मागमरोधः, विनिर्जरा कर्म्मक्षयः, अमरसुखानि देवसुखानि, विपुलानि दीर्घस्थित्यादिभिर्धर्म्मध्यानवरस्य फलानि भवन्ति । 'सुहाणु०' सुकुल- बोधिलाभ-भोग-दीक्षा-मोक्षानुबन्धीनि ।। ९३ ।।
अवचूर्णिः - पूर्वं धर्म्मफलमाह - शुभाश्रवः पुण्याश्रवः, संवरो अशुभकर्म्मागमनिरोधः विनिर्जरा
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org