SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ७६ ध्यानशतकम् दीपिका - सामान्येन शुक्लायां वे आद्ये, तृतीयं परमशुक्लायां स्यात्, स्थिरताजितशैलेशं तुर्य परमशुक्लं लेश्यातीतम् ।।८९।। गतं लेश्याद्वा० १० । ___ अवचूर्णिः - अथ लेश्या आह - सामान्येन शुक्लायां लेश्यायां वे आये, तृतीयं परमशुक्ललेश्यायां लेश्यातीतं परमशुक्लं चतुर्थम् ।। ८९ ।। अवचूरिः - लेश्याद्वारमाह - सुक्का० ।। सामान्येन शुक्लायां लेश्यायां द्वे आद्ये तृतीयं परमशुक्ललेश्यायाम, लेश्यातीतं परमशुक्लं चतुर्थम् ।।८९ ।। टीका - लेश्याद्वारमाह - शुक्लायां लेश्यायां द्वे आये, तृतीयं परमशुक्ललेश्यायां स्थिरताजितशैलेशम्, लेश्यातीतं परमशुक्ल चतुर्थम् । लिङ्गद्वारमाह। यान्येव धर्मध्यानस्य लिङ्गानि तान्येवास्यापि ।।८९ ।। अवहासंमोहविवेग-विउसग्गा तस्स होंति लिंगाइं । लिंगिजइ जेहिं मुणी, सुक्कज्झाणोवगयचित्तो ।।९०।। अर्थलेशः - अवहा गाथा ।। तस्य शुक्लध्यानस्य एतानि चत्वारि लिङ्गानि स्युः । एतानि कानि? १-अवध २-असम्मोह ३-विवेक ४-व्युत्सर्गाः । मुनिः शुक्लध्यानोपगतचित्तः यैः प्रकारैलिङ्ग्यते - ज्ञायते ।।१२।। दीपिका - अथ लिङ्गद्वारम् - १-अवध २-असम्मोह ३-विवेक ४-व्युत्सर्गाः लिङ्ग्यते ज्ञायते ।।९० ।। अवचूर्णिः - लिङ्गद्वारमाह - अवधासम्मोहविवेकव्युत्सर्गाः तस्य शुक्लध्यानस्य लिङ्गानि ।।१०।। अवचूरिः - लिङ्गद्वारमाह - अव० ।। अवधाऽसम्मोह-विवेक-व्युत्सर्गास्तस्य शुक्लध्यानस्य [भवन्ति लिङ्गानि लिङ्ग्यते गम्यते [यैर्मुनिः शुक्लध्यानोपगतचितः] ।।९० ।। टीका - अवधाऽसम्मोहविवेकव्युत्सर्गास्तस्य शुक्लस्य लिङ्गानि, शेषं स्पष्टम् ।। ९० ।। चालिज्जइ बीहेइ व, धीरो न परीसहोवसग्गेहिं । सुहमेसु न संमुज्झइ, भावेसु न देवमायासु ।। ९१ ।। अर्थलेशः - चालिजइ गाथा ।। १-धीरः साधुः परीषहोपसर्गर्नचाल्यते न बिभेति च एतदवधलिङ्गम्, २- तथा मुनिः सूक्ष्मेषु भावेषु वर्गणागतपरमाण्वादिद्रव्येषु च अन्यद् देवमायासु देवकृतगीत-नृत्यादिकपटेषु न सम्मुह्यति मूढतां न प्राप्नोति मोहं च न गच्छति । एतदसम्मोहलिङ्गम् ।।१३।। दीपिका - एषां व्याख्या - १-परिषहोपसर्गानान्न चाल्यते धीरः स्थिरस्तेभ्यो न बिभेतीत्यवधः, २- 'सुहु०' सूक्ष्मेष्वतिगहनेषु भावेष्वर्थेषु न च देवमायासु मुह्यतीत्यसम्मोहः ।। ९१ ।। अवचूर्णिः - भावार्थमाह - चाल्यते ध्यानान्न परीषहोपसगैर्बिभेति वा धीरो न तेभ्य इत्यवधलिङ्गम्।।९१ ।। . Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002560
Book TitleDhyanashatakam Part 2
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages350
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy