________________
७५
परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः
अवचूरिः - उक्तं ध्यातव्यद्वारम्, ध्यातारः प्रागुक्ताः, अथानुप्रेक्षाद्वारमाह - सुक्क० ।। शुक्लध्यानसुभावितचित्तश्चिन्तयति ध्यानविरमेऽपि नियतमनुप्रेक्षाश्चतस्रश्चारित्रसम्पन्नः, तत्परिणामरहितस्य तदभावात् ।।८७ ।। टीका- अनुप्रेक्षाद्वारमाह- स्पष्टा ।। ८७ ।।
आसवदारावाए तह, संसारासुहाणुभावं च ।
भवसंताणमणन्तं, वत्थूणं विपरिणामं च ।। ८८ ।। अर्थलेशः आसव गाथा । १-आश्रवद्वारेभ्य: पापबन्धनप्रकारेभ्यो ये अपाया नरकादिकष्टानि तानि चिन्तयेद् एकानुप्रेक्षा, २- तथा संसाराशुभानुभावं गर्भवासजन्मजरामरणादिरूपं चिन्तयेत् द्वितीयानुप्रेक्षा, ३- तथा अनन्तभवसन्तानं चिन्तयेत्, अभव्यजीवा निगोदान्निर्गत्य पृथिव्यादिष्वऽनन्तभवान् भ्राम्यन्ति, निगोदे वा अनन्तकालं तिष्ठन्ति, तेषां संसारानन्तत्वं चिन्तयेत् तृतीयाऽनुप्रेक्षा, ४- तथा वस्तूनां विपरिणामं पदार्थानाम् उत्पत्तिव्ययध्रौव्यत्वेन विविधपरिणामेन भवनं चिन्तयेत् चतुर्थी अनुप्रेक्षा ४ ।।१०।।
दीपिका - १-आश्रवद्वारेभ्योऽपायान्, २-संसाराशुभानुभावम्, ३-भवसन्तानमनन्तम्, ४-वस्तूनां विपरिणाममनित्यत्वाद्यम् । एताः १ अपाय २ अशुभ ३ अनन्त ४ विपरिणामाख्या अनुप्रेक्षा आद्यभेदयोरेव ।। ८८ ।। गतम् अनुप्रेक्षा०९ ।
अवचूर्णिः - ताश्चैताः- आश्रवद्वाराणि मिथ्यात्वादीनि, तदपायान् दुःखलक्षणान्, तथा संसाराशुभानुभावम्, भवसन्तानमनन्तं भाविनं नारकाद्यपेक्षया, वस्तूनां विपरिणामं च, एताश्चतस्रोऽप्यपायाशुभानन्तविपरिणामानुप्रेक्षा आद्यभेदद्वयसङ्गता एव ज्ञेयाः ।। ८८ ।।
अवचूरिः - ताश्चेमाः - आस० ।। आश्रवद्वाराणि मिथ्यात्वादीनि, तदपायान् दुःखलक्षणान् तथा संसाराशुभानुभावंच, भवसन्तानमनन्तं भाविनं नारकाद्यपेक्षया, वस्तूनां विपरिणामंच सचेतनानि “सव्वट्ठाणाणि असासयाणि" इत्यादि, एताश्चतस्रोऽप्यपाया-ऽशुभा-ऽनन्त-विपरिणामानुप्रेक्षा आद्यद्वयभेदसङ्गता एव द्रष्टव्या ।।८८ ।।
टीका - ताश्चैताश्चतस्रोऽनुप्रेक्षा आह - आश्रवद्वाराणि मिथ्यात्वादीनि, तेभ्योऽपायान् दुःखरूपान्, संसारासुखानुभावम्, भवसन्तानमनन्तम्, भाविनां वस्तुनां सचेतनानां पुत्रकलत्रादीनां विपरिणामं च । एताश्चतस्रोऽनुप्रेक्षाः शुक्लाद्यभेदद्वयसङ्गता ज्ञेयाः ।। ८८ ।।
सुक्काए लेसाए, दो ततियं परमसुक्कलेस्साए ।
थिरयाजियसेलेसं, लेसाईयं परमसुक्कं ।। ८९ ।। अर्थलेशः - सुक्काए गाथा ।। चतुर्णा शुक्लध्यानभेदानां मध्ये प्रथमौ द्वौ भेदौ शुक्ललेश्यायां भवतः। तृतीयं शुक्लध्यानं परमशुक्ललेश्यायाम् उत्कृष्टपरिणामशुक्ललेश्यायां स्यात् । परमशुक्लम् उत्कृष्टशुक्लध्यानं चतुर्थं लेश्यातीतं लेश्यारहितं भवति। किं विशिष्टं परमशुक्लम् ? स्थिरताजितशैलेशम् ।।९१।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org