________________
७४
ध्यानशतकम् अवचूर्णिः - आह चतुर्थे निरुद्धत्वादसावपि न स्यात्तत्र का वार्ता ? उच्यते - चित्ताभावेऽपि सति सूक्ष्मोपरतक्रिये भण्येते, सूक्ष्मग्रहणात् सूक्ष्मक्रियाऽनिवर्तिनो ग्रहणम्, उपरतग्रहणाद् व्युपरतक्रियाऽप्रतिपातिनः, पूर्वप्रयोगादिति हेतुः, कुलालचक्रभ्रमणवत्, यथा तञ्चकं भ्रमणनिमित्तदण्डादिक्रियाऽभावेऽपि भ्रमति तथाऽस्यापि मनःप्रभृतियोगोपरमेऽपि जीवोपयोगसद्भावतो भावमनसो भावाद्भवस्थस्य ध्याने, एवं शेषहेतवोऽपि योजनीयाः, विशेषस्तूच्यते-कर्मविनिर्जरणहेतुतश्चापि क्षपकश्रेणिवत् क्षपकश्रेण्यामिवास्य भवोपग्राहिकर्मनिर्जरेत्यर्थः, तथा शब्दार्थबहुत्वात् यथा एकस्यैव हरिशब्दस्य शक्रशाखामृगादयोऽनेकार्थाः, एवं ध्यानशब्दस्यापि. 'ध्यै चिन्तायां' 'ध्यै काययोगनिरोधे', ध्यै अयोगित्वे' इत्यादि, तथा जिनचन्द्रागमाञ्चैतदेवम्।। ८५-८६।।
अवचूरिः - आह - चतुर्थे निरुद्धत्वादसावपि न स्यात्, यत्तत्र का वार्ता ? उच्यते०- पुन० ।। चित्ता० ।। काययोगनिरोधिनोऽयोगिनो वा चित्ताभावेऽपि सूक्ष्मोपरतक्रिये भण्येते, सूक्ष्मग्रहणात् सूक्ष्मक्रियाऽनिवर्तिनो ग्रहणम्, उपरतग्रहणाद् व्युपरतक्रियाऽप्रतिपातिनः, पूर्वप्रयोगादिति हेतुः, कुलालचक्रभ्रमणवद्, यथा तच्चक्रं भ्रमणनिमित्तदण्डादिक्रियाऽभावेऽपि भ्रमति तथाऽस्यापि मनःप्रभृतियोगोपरमेऽपि जीवोपयोगसद्भावतः भावमनसो भावाद् भवस्थस्य ध्याने । एवं शेषहेतवोऽप्यनया गाथया योज्याः । विशेषस्तूच्यते - कर्मविनिर्जरणहेतुतश्चापि कर्मनिर्जरणहेतुत्वात् क्षपकश्रेणिवत्, भवति च क्षपकश्रेण्यामिवास्य भवोपग्राहिकर्मनिर्जरेति भावः । तथा शब्दार्थबहुत्वाद् यथैकस्यैव हरिशब्दस्य शक्र-शाखा-मृगादयोऽनेकेऽर्थाः, एवं ध्यानशब्दस्यापि, ‘ध्यै चिन्तायाम्, ध्यै काययोगनिरोधे, ध्यै अयोगित्वे' इत्यादि तथा जिनचन्द्रागमाञ्चैतदेवमिति ।।८५-८६।।
__टीका - चतुर्थे शुक्ले कायस्यापि निरुद्धत्वात् कथं ध्यानत्वमिति. चेदित्याह- जीवोपयोगसद्भावाद् भवस्थस्य सूक्ष्मोपरतक्रिये ध्याने सदा भण्येते । पूर्वप्रयोगतोपि च कुलालचक्रभ्रमणवत् कर्मणां भवोपग्राहिणां विनिर्जराहेतुतश्चापि । शब्दार्थबहुत्वात् ‘ध्यै चिन्तायां काययोगनिरोधे अयोगित्वे चे' ति । जिनचन्द्रागमाञ्च। उक्तं ध्यातव्यम् । ध्यातारो धर्मध्याने उक्ताः ।। ८५-८६ ।।
सुक्कज्झाणसुभावियचित्तो, चिंतेइ झाणविरमेऽवि ।
णिययमणुप्पेहाओ, चत्तारि चरित्तसंपन्नो ।। ८७ ।। अर्थलेशः - सुक्क गाथा ।। सामान्यतस्छद्मस्थावस्थायां शुक्लध्यानसुभावितचित्तो जीवो ध्यानोपरमेऽपि ध्याननिवृत्तावपि नियतं चतस्रोऽनुप्रेक्षा धर्मचिन्तारूपाश्चिन्तयति । किंविशिष्टो जीवः? चारित्रसम्पन्नो: देशविरतिचारित्रवान् सर्वविरतिचारित्रवान् वा केवलिनो शुक्लध्यानप्रतिपाताभावादित्युक्तम् ।। ८९ ।।
दीपिका - गतं ध्यातव्यद्वारम्, ध्यातारो धर्मध्याने एवोक्ताः, अथानुप्रेक्षा- ध्यानविरमे ध्यानापगमेऽपि नियतमनुप्रेक्षाः, ताश्चेमा: ।। ८७ ।।
___ अवचूर्णिः - उक्तं ध्यातव्यम्, ध्यातारः प्रागुक्ताः, अथानुप्रेक्षा आह - नियतमनुप्रेक्षाश्चतस्त्रः, चारित्रसम्पत्रस्तत्परिणामरहितस्य तदभावात् ।। ८७ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org