________________
७३
परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः
अर्थलेशः - जह गाथा ।। यथा छद्मस्थस्य सुनिश्चलं मनो ध्यानं भण्यते तथा केवलिन: सुनिश्चलकायो ध्यानं भण्यते ।।८६।।
दीपिका - अमनस्कस्य कथं ध्यानमित्याह- यथा सुनिश्चलं मनः छद्मस्थस्य ध्यानं तथा केवलिनः सुनिश्चलकायो ध्यानं भण्यते, तुर्ये तु ध्याने रुद्धत्वात्काययोगोऽपि नास्ति ।। ८४ ।।
__ अवचूर्णिः - आह-शुक्लोपरिमभेदद्वयेऽमनस्कत्वात्केवलिनो ध्यानं च मनोविशेषः “ध्यै चिन्तायां" इति पाठात्, तदेतत्कथं स्यात् ? उच्यते- यथा छद्मस्थस्य मनो ध्यानं भण्यते सुनिश्चलं सत्, तथा योगत्वाव्यभिचारात्केवलिनः कायः।। ८४ ।।
__ अवचूरिः - आह - शुक्लध्यानोपरिमभेदद्वये मनो नास्ति, अमनस्कत्वात् केवलिनः, ध्यानं च मनोविशेषः 'ध्यै चिन्तायाम्' इति पाठात्, तदेतत्कथम् ? उच्यते- जह० ।। यथा छद्मस्थस्य मनो ध्यानं भण्यते सुनिश्चलं सत् तथा केवलिनः कायो योगत्वाव्यभिचारात् सुनिश्चलो भण्यते ध्यानम् ।।८४ ।। टीका- केवलिनः कथं ध्यानमिति चेदित्याह– स्पष्टा ।। ८४ ।।
पुबप्पओगओ चिय, कम्मविणिज्जरणहेउतो यावि । सहत्थबहुत्ताओ, तह जिणचंदागमाओ य ।। ८५ ।। चित्ताभावेवि सया, सुहुमोवरयकिरियाइ भण्णंति ।
जीवोवओगसब्भावओ, भवत्थस्स झाणाई ।। ८६ ।। अर्थलेशः - पुव्व गाथा ।। चित्ता गाथा ।। चित्ताभावेपि तथा पूर्वगाथोक्तदृष्टान्तैः सूक्ष्मक्रियउपरतक्रिये ध्याने सदा भण्येते । भवस्थस्य जीवस्य जीवोपयोगसद्भावत: एते ध्याने भवतः। यस्मात् पूर्वप्रयोगत एव यथा कुम्भकारश्चक्रम् एकवारं भ्रमयति पश्चात्स्वयमेव कियत्कालं भ्राम्यति । एवं चित्तसद्भावे ध्यानमारब्धं चित्ताभावेपि स्वयं भवतीत्यर्थः । यद्वा कर्मविनिर्जराहेतुतोऽपि कर्मक्षयेन चितं विनाऽपि ध्यानं स्यादित्यर्थः । यद्वा शब्दार्थबहुत्वात् यथा 'ध्यै चिन्तायां' तथा 'ध्यै अयोगिस्थे' इति चित्ताभावेऽपि ध्यानं ज्ञेयम् । यद्वा जिनचन्द्रागमात् वीतरागोक्तसिद्धान्तवचनात् चित्तं विनाऽपि ध्यानं स्यादित्यर्थः ।।८७-८८।।
दीपिका - तत्र तु ध्यानत्वमेवम्- काययोगरोधियोगिनोऽयोगिनो वा चित्ताभावेऽपि सति सूक्ष्मोपरतक्रिये ध्यानभेदौ भण्येते, पूर्वप्रयोगादिति हेतुः चक्रभ्रमवदिति दृष्टान्तोऽभ्यूह्यः, यथा चक्रं भ्रमहेतुदण्डादिक्रियाभावेऽपि पूर्वप्रयोगाद् भ्रमति तथाऽस्य द्रव्यमनोयोगोपरमेप्यात्मोपयोगसद्भावाद् भावमनोभावोद्भवस्थध्याने इति । अपि निर्णये हेत्वन्तराण्याह 'कम्मवि०' यथा क्षपकश्रेणी कर्मनिर्जराभावाद् ध्यानं तथाऽत्रापि । 'सहत्थ०' ध्यानशब्दस्यार्थबहुत्वात्, यथा हरिशब्दोऽनेकार्थः तथा ध्यानशब्दोऽपि, ‘ध्यै' चिन्तायां, ‘ध्यै' कायनिरोधे अयोगित्वे इत्यपि। तथा जिनचन्द्रागमानिनोक्तत्वादित्यर्थः। जीवोपयोगसद्भावत: सदेहजीवज्ञानभावाद्भवस्थस्य ध्याने स्त: ।। ८५-८६ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org