SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ध्यानशतकम् दीपिका - तस्यैव केवलिनः, शैलेशीगतस्य शैल इव नि:प्रकम्पस्य, व्युच्छिन्नक्रियं नाम योगाभावात्, अप्रतिपाति पाताभावात्, व्युच्छिन्नक्रियाप्रतिपातीति नाम ध्यानं स्यात् ।। ८२ ।। अवचूर्णिः - अस्या गाथायाः अवचूणिर्नास्ति । सम्पा० ।। अवचूरिः - तस्से० ।। तस्यैव च केवलिनः शैलेशीगतस्य, किंविशिष्टस्य ? शैलेश इव निष्प्रकम्पस्य मेरोरिव स्थितस्य, किम् ? व्यवच्छिन्नक्रियं योगाभावाद्, अप्रतिपाति अनुपरतिस्वभावमिति, एतदेव अस्य नाम ।।८।। टीका - स्पष्टा ।। ८२ ।। पढम जोगे जोगेसु वा, मयं बितियमेगजोगंमि । तइयं च कायजोगे, सुक्कमजोगंमि य चउत्थं ।।८३।। अर्थलेशः - पढम गाथा ।। प्रथमं शुक्लध्यानं एकस्मिन् योगे वा अथवा त्रिषु योगेषु मतं कथितम्, द्वितीयं शुक्लध्यानम् एकस्मिन् योगे त्रयाणां मध्ये एकस्मिन् योगे कथितम्, तृतीयं शुक्लध्यानं काययोगे स्यात्, चतुर्थं शुक्लध्यानम् अयोगे योगत्रयरहितवेलायां भवति ।।८५।। दीपिका - एकस्मिन् योगे, योगेषु वा त्रिष्वपि, मतमुक्तम्, तञ्च भङ्गिकश्रुतपाठिनः । द्वितीयमेकयोगेऽन्यतरस्मिन् सङ्क्रमाभावात्।।। ८३ ।। अवचूर्णिः - इत्थं चतुर्विधं ध्यानमुक्त्वा तत्प्रतिबद्धमेव वक्तव्यताशेषमाह- प्रथमं पृथक्त्ववितर्कं सविचारम्, योगे मनआदौ योगेषु वा सर्वेषु मतमिष्टम्, तच्चागमिकश्रुतपाठिनः, द्वितीयमेकत्ववितर्कमविचारम्, एकयोग एवान्यतरस्मिन् सङ्क्रमाभावात्, तृतीयं च सूक्ष्मक्रियानिवर्ति काययोगे, न [योगान्तरे], शुक्लमयोगिनि शैलेशीकेवलिनि चतुर्थं व्युपरतक्रियाऽप्रतिपाति ।। ८३ ।। अवचूरिः - इत्थं चतुर्विधं ध्यानमुक्तमेतत्प्रतिबद्धमेव वक्तव्यताशेषमाह- पढ० ।। प्रथमं योगे मनआदौ योगेषु वा सर्वेषु मतम् इष्टम् तञ्चागमिकश्रुतपाठिनः । द्वितीयम् एकत्ववितर्कमविचारम्, तदेकयोग एव, अन्यतरस्मिन् संक्रमाभावात् । तृतीयं च सूक्ष्मक्रियाऽनिवर्ति काययोगे, न योगान्तरे । शुक्लम् अयोगिनि शैलेशीकेवलिनि चतुर्थम् व्युपरतक्रियाऽप्रतिपाति ।।८३।। टीका - उक्तं चतुर्धा शुक्लम्, तत्प्रतिबद्धमेव शेषमाह- प्रथमं शुक्लं योगे योगेषु वा मतं ससङ्क्रमत्वात् । द्वितीयमेकस्मिन् योगे सङ्क्रमाभावात् । तृतीयं काययोगे न योगान्तरेषु । चतुर्थमयोगे केवलिनि अमनस्कत्वात् ।। ८३ ।। जह छउमत्थस्स मणो झाणं भण्णइ सुनिश्चलो संतो । तह केवलिणो काओ, सुनिश्चलो भन्नए झाणं ।। ८४ ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002560
Book TitleDhyanashatakam Part 2
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages350
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy