________________
७१
परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः
अवचूर्णिः - तत:- अविचारम् असङ्कम, अर्थव्यञ्जनयोगान्तरतः, तद् द्वितीयं शुक्लं स्यात्, एकत्ववितर्कमविचारम् एकत्वेनाभेदेन वितको व्यञ्जनरूपोऽर्थरूपो वा यस्य तत्तथा ।। ८० ।।
अवचूरिः - तत् किमत आह - अवि० ।। अविचारमसंक्रमम् अर्थव्यञ्जनयोगान्तरतः इति प्राग्वत्, तत् द्वितीयं शुक्लं स्यात् । किंनामा अत आह - एकत्ववितर्कमविचारम् एकत्वेन अभेदेन वितर्को व्यञ्जनरूपोऽर्थरूपो वा यस्य तत्तथा, इदमपि च पूर्वगतश्रुतानुसारेणैव स्यात्, शेषं प्राग्वत् ।।८।।
___टीका - तत्किमित्याह - अविचारम् असङ्क्रमं कुतः? अर्थव्यञ्जनयोगान्तरतः द्वितीयं शुक्लध्यानम्। एकत्वेनाभेदेन वितर्को व्यञ्जनरूपोऽर्थरूपो वा यस्य तत्तथा ।। ८० ।।
निव्वाणगमणकाले, केवलिणो दरनिरुद्धजोगस्स ।
सुहुमकिरियाऽनियहि, तइयं तणुकायकिरियस्स ।। ८१ ।। अर्थलेशः - निव्वाण गाथा ।। निर्वाणगमनकाले केवलिनः तृतीयं शुक्लध्यानं भवति । किं विशिष्टस्य केवलिनः ? दरनिरुद्धयोगस्य ईषत् निरुद्धकाययोगस्य तथा तनुकायक्रियस्य स्तोककायव्यापारस्य, किं विशिष्टं शुक्लध्यानम्? सूक्ष्मक्रियानिवृत्तिनामकमिति तृतीयो भेदः ।। ८१ ।।
दीपिका - 'दरनिरुद्ध'त्यादि, मनोवाग्योगरोधादन्वर्द्धरुद्धकाययोगस्य केवलिनो निर्वाणगमनकाले तत् स्यात् , किंनाम? तत्सूक्ष्मक्रियाऽनिवर्ति सूक्ष्मक्रियं तदनिवर्ति वा । तन्वी उच्छ्वासादिरूपा कायक्रिया यस्य, 'तत्थ दुसमयठिइयं इरियावहियं कम्मं बज्झइ' ।। ८१ ।।
__ अवचूर्णिः - मोक्षगमनप्रत्यासन्नसमये केवलिनो मनोवाग्योगद्वये निरुद्धे सति अर्द्धनिरोध[रुद्धाकाययोगस्य सूक्ष्मक्रियाऽनिवर्ति सूक्ष्मक्रियं च तदनिवर्ति च, प्रवर्द्धमानतरपरिणामान्न निवर्ति अनिवर्ति, तृतीयं ध्यानम्, तनुकायक्रियस्य तन्वी उच्छ्वासनिःश्वासादिलक्षणा कायक्रिया यस्य स तथाविधस्तस्य ।। ८१ ।।
अवचूरिः - निव्वा० ।। निर्वाण-मोक्षगमनप्रत्यासनकाले केवलिनो मनोवाग्योगद्वये निरूद्धे सति अर्द्धनिरूद्धकाययोगस्य, किम् ? सूक्ष्मक्रियाऽनिवर्ति सूक्ष्मा क्रिया यस्मिन् तत् सूक्ष्मक्रियं तच्च तदनिवर्ति च प्रवर्द्धमानतरपरिणामान निवर्तितुं शीलम् अस्येति अनिवर्ति तृतीयम् ध्यानम्, तनुकायक्रियस्य तन्वी उच्छ्वासनिःश्वासादिलक्षणा कायक्रिया यस्य स तथाविधस्तस्य ।।८१।। । टीका- स्पष्टा। नवरं तन्वी उच्छ्वासनि:श्वासरूपा क्रिया यस्य स तथा तस्य तनुकायक्रियस्य ।। ८१ ।।
तस्सेव य सेलेसीगयस्स, सेलोव्व णिप्पकंपस्स ।
वोच्छिन्नकिरियमप्पडिवाइ ज्झाणं परमसुक्कं ।। ८२ ।। अर्थलेशः - तस्सेव य गाथा ।। तस्यैव तृतीयशुक्लध्यानभेदस्थितस्य साधोः शैलेशीगतस्य शैलवत् निःप्रकम्पस्य चतुर्थमप्रतिपातिपरमशुक्लध्यानं भवति । किं विशिष्टं शुक्लध्यानम् ? व्युच्छिन्नक्रियं नाम इति चतुर्थो भेदः ।।८४ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org