________________
७०
ध्यानशतकम् योगसंक्रमः, अर्थो द्रव्यम्, व्यञ्जनं शब्दः, योगो मन:प्रभृति, एतदन्तरतः एतद्भेदेन सविचारम् अर्थाद् व्यञ्जनं संक्रामतीति विभाषा, तकम् एतत् प्रथमं शुक्लं स्यात् । किंनामेत्याह - पृथक्त्ववितर्कं सविचारम् पृथक्त्वेन भेदेन विस्तीर्णभावेनान्ये, वितर्कः श्रुतं यस्मिन् तत्तथा, कस्येदम् ? अरागभावस्य ।।७८ ।।
टीका - शुक्लध्यानभेदचतुष्टयमाह - अरागभावस्य रागपरिणामरहितस्य पृथक्त्ववितर्कसविचारं नाम पृथक्त्वेन एकद्रव्याश्रितानामुत्पादादिपर्यायाणां भेदेन वितर्को विकल्पो यत्र तत् पृथक्त्ववितर्कं तञ्च तत्सविचारम् प्रथमं शुक्लध्यानं भवति । सविचारं ससङ्क्रममर्थव्यञ्जनयोगान्तरतः । अर्थो द्रव्यम्, व्यञ्जनं शब्दः, योगो मन:प्रभृति । तत्राऽर्थाद् व्यञ्जनं व्यञ्जनादर्थं सङ्क्रामति योगाद्योगमिति ।। ७८ ।।
जं पुण सुणिप्पकंपं, निवायसरणप्पईवमिव चित्तं ।
उप्पायट्ठिइभंगाइयाणमेगंमि पजाए ।। ७९ ।।। अर्थलेशः - जं पुण गाथा ।। यत् पुनश्चित्तम् एकस्मिन् द्रव्ये उत्पादस्थितिभङ्गादीनां पर्यायाणां मध्ये एकस्मिन् पर्याये निर्वातशरणप्रदीपवत् निर्वातगृहदीपवत् सुनि:प्रकम्पं कम्परहितं निश्चलं भवति ।।८१।।
दीपिका - यत्पुनरुत्पादस्थितिभङ्गादीनामेकस्मिन् पर्याये, निर्वातशरणगृहे प्रदीपवत्, सुनि:प्रकम्पं चित्तं स्यात् ।। ७९ ।।
अवचूर्णिः - निर्वातशरणप्रदीप इव चित्तम्, उत्पादस्थितिभङ्गादीनामेकस्मिन् पर्याये ।।७९ ।।
अवचूरिः - जं पुण० ।। यत्पुनः सुनिष्प्रकम्पं निर्वातशरणप्रदीपवत् चित्तम्, क्व ? उत्पाद स्थिति-भङ्गादिनामेकस्मिन् पर्याये ।।७९।।
टीका - यत्पुनश्चित्तमुत्पादस्थितिभङ्गादीनां पर्याये एकस्मिन् निर्वातशरणप्रदीप इव सुनिःप्रकम्पम् ।। ७९ ।।
अवियारमत्थवंजणजोगंतरओ तयं बिइयसुक्कं ।
पुव्वगयसुयालंबणमेगत्तवितक्कमवियारं ।। ८० ।। अर्थलेशः - अवियार गाथा ।। अर्थव्यञ्जनयोगान्तरतः अविचारं तद् द्वितीयं शुक्लध्यानं भवति। किं विशिष्टं शुक्लध्यानम्? पूर्वगतश्रुतालम्बनं तथा एकत्ववितर्काविचारनामकमिति द्वितीयो भेदः ।।८२।।
दीपिका - अविचारम् असङ्कमम्, कुतोऽर्थव्यञ्जनयोगान्तरतः, तद् द्वितीयं शुक्लम्, पूर्वगतश्रुतालम्बनम्, किंनामा ? इत्याह - एकत्ववितर्कमविचारम् एकत्वेनाभेदेन वितर्को व्यञ्जनरूप एवार्थरूप एव वा यस्य ।।८।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org