________________
६९
परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः अण्वात्मादौ, नानानयैर्द्रव्यास्तिकादिभिरनुस्मरणं चिन्तनम्, पूर्वगतश्रुतानुसारेण पूर्वविदः, मरुदेव्यादीनां त्वन्यथा ।। ७७।।
अवचूरिः - उक्तः क्रमः, ध्यातव्यमाह- उप्पा० ।। उत्पाद-स्थिति-भङ्गादिपर्यायाणाम् आदिशब्दान्मू मूर्त्तग्रहो यदेकस्मिन् द्रव्ये अण्वात्मादौ, किम् ? नानानयैर्द्रव्यास्तिकादिभिरनुस्मरणं चिन्तनम्, कथम् ? पूर्वगतश्रुतानुसारेण पूर्वविदः, मरूदेव्यादीनां त्वन्यथा ।।७७ ।।
___टीका - ध्यातव्यद्वारमाह- उत्पादादीनां यदेकवस्तुनि अण्वात्मादौ नानानयैर्द्रव्यास्तिकायादिभिरनुस्मरणम्, पूर्वगतश्रुतानुसारेण तद् ध्यातव्यम्।।७७ ।।
सवियारमत्थवंजण-जोगंतरओ तयं पढमसुक्कं ।
होइ पुहुत्तवितक्कं, सवियारमरागभावस्स ।। ७८ ।। अर्थलेशः - सविया गाथा ।। अरागभावस्य रागपरिणामरहितस्य पृथक्त्ववितर्कसविचारं नाम पृथक्त्वेन एकद्रव्याश्रितानाम् उत्पादादिपर्यायाणां भेदेन वितर्को विकल्पो यत् तत् पृथक्त्ववितर्कं तञ्च तत् सविचारं [च तत्] प्रथमं शुक्लध्यानं भवति । सविचारं ससङ्क्रमम्, अर्थव्यञ्जनयोगान्तरतः अर्थो द्रव्यम्, व्यञ्जनं शब्दः, योगो मनःप्रभृति । तत्रार्थाद्व्यञ्जनं व्यञ्जनादर्थं सङ्क्रामति योगाद् योगमिति ।।८०।।
दीपिका - तच्च- अरागभावस्य रागपरिणामरहितस्य अर्थव्यञ्जनयोगान्तरतो यत् सविचारं तत् पृथक्त्ववितर्कसविचारं नाम प्रथमं शुक्लं स्यात् । पृथक्त्वेन एकद्रव्याश्रितानामुत्पादादिपर्यायाणां भेदेन वितर्को यत्र तत् पृथक्त्ववितर्कम्, विचारः सङ्क्रमो विद्यते यत्र तत्सविचारम् । अर्थव्यञ्जनयोगान्तरतः अर्थो द्रव्यम्, व्यञ्जनं शब्दः योगो मानसादिः, एतदन्तरत एतद्भेदेन, कोऽर्थः? अर्थाद् व्यञ्जनं सङ्क्रामतीति, व्यञ्जनादर्थम्, योगाद्योगान्तरं सङ्क्रामति, यथा मनोयोगाद् वाग्योगमित्यादि। तथाऽत्राऽरागस्योक्तम्, चूर्णी तुसुयनाणे उवउत्तो अत्थंमि य वंजणम्मि सवियारं । झायति चउदसपुव्वी, पढमं सुक्कं सरागो उ।१। सुयनाणे उवउत्तो, अत्थंमि य वंजणंमि अवियारं । झायइ चउदसपुव्वी, सुकं बीयं विगयरागो। २। अत्थसंकमणं चेव तहा वंजणसंकमं । जोगसंकमणं चेव, पढमे झाणे निगच्छई । ३ । अत्थसंकमणं चेव, तहा वंजणसंकमं । जोगसंकमणं चेव, बीए झाणे न विजई । ४ । जोगे जोगेसु वा पढमं बीयं जोगंमि कन्हइ । तइयं च काइए जोगे, चउत्थं च अजोगिणो । ५।। पढमं बीयं च सुक्कं च, झायन्ति पुव्वजाणगा । उवसंतकसाएहिं, खीणेहिं व महामुणी । ६ । ।।७८ ।।
अवचूर्णिः - तत् सविचारम्, विचारोऽर्थव्यञ्जनयोगसङ्क्रमः, अर्थो द्रव्यम्, व्यञ्जनं शब्दः, योगो मनःप्रभृति, एतदन्तरतः एतद्दे [तावद्भेदेन सविचारम्, तकमेतत् प्रथमं शुक्लं नाम्ना पृथक्त्ववितर्क सविचारम्, पृथक्त्वेन भेदेन विस्तीर्णभावेनान्ये वितर्कः श्रुतं यस्मिंस्तथा, स्यादरागभावस्य ।।७८ ।।
अवचूरि : - तत्किमित्याह - सवि० ।। सह विचारेण वर्तते सविचारम्, विचारः अर्थ-व्यञ्जन
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org