SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ૬૮ ध्यानशतकम् अवचूरिः - पुनर्दृष्टान्तोपनयावाह- तोय० ।। तोयमिव उदकमिव नालिकाया घटिकायास्तथा तप्तं च तदायसभाजनं लोहभाजनं च तप्तायसभाजनं तदुदरस्थं वा विकल्पार्थः परिहीयते क्रमेण यथा तथा योगिमनोजलं जानीहि ।।७५।। टीका - पुनरत्रैव दृष्टान्तोपनयावाह- यथा तोयं नालिकाया घटिकायाः यथा वा तप्तलोहभाजनोदरस्थं जलं क्रमेण परिहीयते, तथा योगिमनोजलं परिहीयते - स्वल्पीभवति । एवं केवलिनो मनोयोगनिरोध उक्त: ।। ७५ ।। एवं चिय वयजोगं, निरंभई कमेण कायजोगंपि । तो सेलेसोव्व थिरो, सेलेसी केवली होइ ।। ७६ ।। अर्थलेशः - एवं चिय गाथा ।। ततो जीवो मुक्तिगमनकाले एवमेव मनोवत् वाग्योगं निरुणद्धि, ततः क्रमेण काययोगं निरुणद्धि, तत: काययोगनिरोधान्तरं शैलेशो मेरुः तद्वत् स्थिर निश्चलकायः शैलेसी केवली भवति ।।७८ ।। दीपिका - केवलिनोऽपि शैलेश्यारम्भक्षणेऽपि मनोरोधयुक्तिरित्थमेव । अथ तामुक्त्वा वाक्कायरोधयुक्तिमतिदिशति । एवमेव विषादिदृष्टान्तैः शैलेश्यां वाग्योगं क्रमेण काययोगं च निरुणद्धि । ततः शैलेश इव स्थिरः सन् शैलेशी केवली भवति । भावार्थो नमस्कारनिर्युक्तेज्ञेयः ।। ७६ ।। अवचूर्णिः - केवली मनोयोगं निरुणद्धीत्युक्तम्, शेषयोगनिरोधविधिमाह- एवमेव एभिरेव विषादिदृष्टान्तैर्वाग्योगं निरुणद्धि ।। ७६ ।। अवचूरिः - केवली मनोयोगं निरुणद्धीत्युक्तम्, अधुना शेषयोगनिरोधविधिमाह - एवं० ।। एवमेव एभिरेव विषादिदृष्टान्तैर्वाग्योगं निरुणद्धि, तथा क्रमेण काययोगमपि निरुणद्धीति वर्तते, ततः शैलेश इव मेरुरिव स्थिरः सन् शैलेशी केवली स्यात् ।।७६।। टीका - शेषयोगनिरोधमाह- स्पष्टा। ।। ७६ ।। उप्पायट्ठिइभंगाइपजयाणं जमेगदव्वंमि । नाणानयाणुसरणं पुव्वगयसुयाणुसारेणं ।। ७७ ।। अर्थलेशः - उप्पाइ गाथा ।। शुक्लध्यानस्य चतुरो भेदानाह । यद् एकस्मिन् द्रव्ये परमाणौ उत्पाद-स्थिति-भङ्गादिपर्यायानां पूर्वगतादिपर्यायानां पूर्वगतश्रुतानुसारेण नानानयैरनुस्मरणं चिन्तनं क्रियते ।।७९।। दीपिका - अथ ध्येयम्- उत्पादस्थितिभङ्गादिपर्यायाणां यदेकद्रव्येऽण्वादौ नानानयैरनुसरणं चिन्तनं च, पूर्वगतश्रुतानुसारेणेति पूर्वविदामेव, मरुदेव्यादीनां तु श्रुतं विनापि ।। ७७ ।। अवचूर्णिः - उक्तः क्रमो ध्यातव्यमाह - उत्पादस्थितिभङ्गादिपर्यायाणां यदेकस्मिन् द्रव्ये Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002560
Book TitleDhyanashatakam Part 2
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages350
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy