________________
परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः
अवचूर्णिः - दृष्टान्तरमाह - अपसारितेन्धनभरो हुताशो, वा विकल्पार्थः, स्तोकेन्धनावशेषो हुताशमात्रं स्यात्तथा निर्वाति, ततः स्तोकेन्धनादपनीतश्च ।। ७३ ।।
अवचूरिः - दृष्टान्तरमाह- उस्सा० ।। अपसारितेन्धनभरः यथा परिहीयते हानि याति क्रमेण हुताशो वा विकल्पार्थः स्तोकेन्धानावशेषो हुताशमात्रं स्यात् तथा निर्वाति ततः स्तोकेन्धनादपनीतः।।७३।।
टीका - अत्रैव दृष्टान्तरमाह - अपसारितेन्धनभरः स्तोकेन्धनावशेषो यथा हुताशः क्रमश: परिहीयते ततोप्यपनीतो निर्वाति ।। ७३ ।।
तह विसइंधणहीणो, मणोयासो कमेण तणुयम्मि ।
विसइंधणे निरंभइ, निव्वाइ तओऽवणीओ य ।।७४।। अर्थलेशः - तह विस गाथा ।। तथा अग्निदृष्टान्तेन मनोहुताश विषयेन्धनहीनः सर्वपदार्थरूपेन्धनरहितः सन् क्रमेण तनुके परमाणुरूपे विषयेन्धने निरुध्यते । ततोऽपि परमाणुतोऽपनीत: सन् निर्वाति ।।७४।।
दीपिका - तथा मनोहुताशो विषयेन्धनहीनः क्रियमाणः क्रमात् तनुके विषयेन्धनेऽणुरूपे निरुध्यते ।। ७४ ।।
अवचूर्णिः - क्रमेण तनुके कृशे विषयेन्धने अणौ निरुध्यते ।। ७४ ।। . अवचूरिः - तह० ।। विषयेन्धनहीनो मनोहताशः क्रमेण तनुके कृशे विषयेन्धने अणावित्यर्थः, निरुध्यते निर्वाति ततस्तस्मादणोरपनीतः ।।७४ ।।
टीका - अत्राप्युपनयमाह - तथा विषयेन्धनहीनो मन एव दुःखदाहकारणत्वाद् हुताशः, क्रमेण तनुके कृशे विषयेन्धने निरुध्यते । ततोप्यपनीतो निर्वाति ।। ७४ ।।
तोयमिव नालियाए, तत्तायसभायणोदरत्थं वा ।
परिहाइ कमेण जहा, तह जोगिमणोजलं जाण ।। ७५।। अर्थलेशः - तोयमिव गाथा ।। यथा नाडिकाया घटिकायाः च्छिद्रेण कुण्डिकाजलं क्रमेण हीयते। यद्वा तप्तायसभाजनोदरस्थानम् अग्नितप्तलोहमयभाजनमध्यस्थितं जलं क्रमेण हीयते । तथा योगिनां मनोजलं जानीहि ।।७५ ।।
दीपिका - इव यथार्थे, नाडिकाया घटिकायाः छिद्रेण तोयं हीयते, वा अथवा, तप्तायोभाजनोदरस्थं तोयं क्रमेण हीयते तथा ध्यानछिद्रेण ध्यानानलतप्तात्मपात्रस्थं वा छद्मस्थयोगिमनोऽम्बु हीयते, एवं जानीहि ।। ७५।।
ष्टान्तोपनयावाह- नालिकायाः घटिकायाः, तथा तप्तं च तदायसभाजनं च, तदुदरस्थं वा, योगिमनोजलं जानीहि ।। ७५ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org