SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ६६ ध्यानशतकम् उच्यते - निरुध्यते निश्चयेन ध्रियते डके, ततो डङ्कात् पुनरपनीयते प्रधानतरमन्त्रेण योगैर्वा औषधैः ।।७१।। - अवचूरिः - आह - कथं पुनच्छद्मस्थत्रिभुवनविषयं मनः संक्षिप्य [अणौ धारयति, केवली वा ततोऽप्यपनयनि इति ? उच्यते - जह० ।। यथा सर्वशरीरगतं विषं मन्त्रेण विशिष्टानुपूर्वीलक्षणेन डङ्के भक्षितदेशे निरुध्यते ततः डङ्कात् पुनः प्रधानतरमन्त्रयोगेनापनीयते ।।७१।। टीका - कथमेतद्भवतीति चेदित्याह- स्पष्टा । नवरं प्रधानतरमन्त्रयोगैः प्रकृष्टमन्त्रेण योगैरौषधैः। अयं दृष्टान्तः ।।७१।। तह तिहुयणतणुविसयं, मणोविसं मंतजोगबलजुत्तो । परमाणुंमि निरंभइ, अवणेइ तओवि जिणवेज्जो ।।७२।। अर्थलेशः - तह गाथा ।। तथा गारुडिकदृष्टान्तेन जीवस्त्रिभुवनतनुविषयं मनोविषं परमाणौ निरुणद्धि । किं विशिष्टो जीवः? मन्त्रयोगबलयुक्तः मन्त्ररूपं सिद्धान्तवचनं तस्य योगेन व्यापारेण बलं ध्यानबलं तेन युक्तः। जिनवैद्यः ततोऽपि परमाणुतो मनोविषम् अपनयति ।।७४।। . दीपिका- त्रिभुवनमेव तनुर्देहः, मन्त्रो जिनवचनं तस्य योगो ध्यानं तदेव बलं तेन युक्तः । परमाणौ निरुणद्धि, जिनवैद्यः क्षीणमोहरूपो वैद्यस्ततोऽप्यनयति ।। ७२ ।। । अवचूर्णिः - उपनयमाह- त्रिभुवनतनुविषयं मन्त्रयोगबलयुक्तो जिनवचनध्यानसामर्थ्यसम्पन्नः, ततोऽपि परमाणौ जिनवैद्यः ।।७२ ।। अवचूरिः - एषः दृष्टान्तः, अयमर्थोपनयः - तह० ।। तथा त्रिभुवनतनुविषयं मन एव] भवमरणनिबन्धनत्वाद्विषं मनोविषम्, मन्त्रयोगबलयुक्तः जिनवचनध्यानसामर्थ्यसम्पन्नः परमाणौ निरुणद्धि, अचिन्त्य प्रयत्नाचापनयति ततोऽपि परमाणोः जिनवैद्यः ।।७२ । । टीका - उपनयमाह- तथा त्रिभुवनतनुविषयं मनोविषं भवरूपमृत्युकरत्वात् , योगमन्त्रबलयुक्तः जिनवचनध्यानसामर्थ्यसम्पन्नः परमाणौ निरुणद्धि प्रयत्नविशेषात्ततोऽप्यपनयति जिनवैद्यः ।।७२।। ओसारियेंधणभरो, जह परिहाइ कमसो हुयासो वा । थोविंधणावसेसो, निव्वाइ तओऽवणीओ य ।। ७३।। अर्थलेशः . उस्सारि गाथा ।। वा अथवा यथा हुताशनोऽपसारितेन्धनभरः स्तोकीकृतेन्धनसमूह: परिहीयते । अथ स्तोकेन्धनावशेषो भवति । ततोऽपीन्धनाद् अपनीतो पृथक्कृतो निर्वाति विध्यायति ।।७५।।। दीपिका - वा अथवा, यथापसारितेन्धनभरो हुताशः क्रमेण परिहीयते स च स्तोकेन्धनावशेषो हुताशमानं जातस्ततः स्तोकेन्धनादपनीतो निर्वाति ।। ७३ ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002560
Book TitleDhyanashatakam Part 2
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages350
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy