________________
परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः
६५ ___टीका - अथ शुक्लध्यान- इहाऽपि तान्येव द्वादशद्वाराणि । तत्र चतुर्बाद्यद्वारेषु न पूर्वस्माद्विशेष इति तानि मुक्त्वा आलम्बनादीन्याह- स्पष्टा ।। ६९ ।।
तिहुयणविसयं कमसो, संखिविउ मणो अणुंमि छउमत्थो ।
झायइ सुनिप्पकंपो, झाणं अमणो जिणो होई ।। ७० ।। अर्थलेशः - तिहुयण गाथा ।। छद्मस्थः त्रिभुवनविषयं मनः क्रमश: अणौ परमाणुविषये निरुध्य ध्यानं ध्यायति। तत अमना मनोरहितः सन् जिनो वीतरागः सन् केवली भवति ।।७२।।
दीपिका - अथ क्रमः, स चाद्ययोः शुक्लभेदयोः ‘सेसस्स जहा समाहीए' इत्युक्त्या धर्मध्याने एवोक्तः, परमयं विशेषः त्रिभुवनविषयं मनः क्रमेण सूक्ष्मतरवस्तुध्यानरूपेण संक्षिप्याणौ निधायेति शेषः, ध्यायति शुक्लध्यानम्। ततोऽपि प्रयत्नादणोरपि मनोऽपनीय अमना जिन: केवली स्यात् ।।७० ।।
अवचूर्णिः - क्रमश्चाद्ययोर्द्वयोर्धर्मध्यान एवोक्तः, अत्र त्वयं विशेष:- संक्षिप्य मनः, अणौ परमाणौ, विधायेति शेषः, ध्यायति सुनिष्पकम्पोऽतीव निश्चल: ध्यानं शुक्लं, ततोऽपि प्रयत्नविशेषान्मनोऽपनीयाऽमना जिनः स्यात्, चरमयोर्द्वयोर्ध्यातेति शेषः, तत्राप्याद्यस्यान्तर्मुहूर्तेन शैलेशीमप्राप्तः, तस्यां च द्वितीयस्य ।। ७०।।
अवचूरिः - क्रमश्चाद्ययोर्धर्मध्यान एवोक्तः, अत्र अयं विशेषः - तिहु० ।। त्रिभुवनम् अधस्तिर्यगूर्ध्वभेदं तद्विषयो गोचरो यस्य, तत्रिभुवनविषयम् क्रमशः क्रमेण प्रतिवस्तुत्यागलक्षणेन संक्षिप्य मनः अन्तःकरणम् क्व ? अणौ परमाणौ निधायेति शेषः । ध्यायति सुनिःप्रकम्पोऽतीवनिश्चलो ध्यानं शुक्लम्, ततोऽपि प्रयत्नविशेषान्मनोऽपनीय अमना जिनः स्यात्, चरमयोर्द्वयोर्ध्यातेति वाक्यशेषः, तत्राप्याद्यस्यान्तर्मुहूर्तेन शैलेशीमप्राप्तः, तस्यां च द्वितीयस्य ।।७।।
___टीका - क्रमद्वारमाह- त्रिभुवनविषयं त्रैलोक्यालम्बनं क्रमश: क्रमेण एकैकवस्तुत्यागरूपेण संक्षिप्य सङ्कोच्य मनः अणौ परमाणौ निवेश्य छद्मस्थो ध्यानं शुक्लध्यानं ध्यायति । सुनिःप्रकम्पः ततः प्रयत्नविशेषादणोरप्यपनीय अमना जिनः केवली भवति ।। ७० ।। ।
जह सव्वसरीरगयं, मंतेण विसं निरंभए डंके ।
तत्तो पुणोऽवणिजइ, पहाणयरमंतजोएणं ।। ७१ ।। अर्थलेशः - जह गाथा ।। यथा गारुडिकेन सर्वशरीरगतं विषं डङ्के दंशस्थाने निरुध्यते । सर्वस्मात् शरीरात् दंशस्थाने आनीय स्थाप्यते । ततोऽनन्तरं पुनः प्रधानतरमन्त्रयोगेन दंशस्थानादपि अपनीयते भूमौ पात्यते ।।७३।।
दीपिका - निरुध्यते दंशे, ततः पुनरपनीयते ।। ७१ ।। अवचूर्णिः - आह कथंछद्मस्थत्रिभुवनविषयं मनः संक्षिप्याणौ धारयति ? केवली वा ततोऽप्यपनयति ?
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org