________________
ध्यानशतकम्
६४ अपरं श्रुतशीलसंयमरतः ।।६८।। धर्मध्यानं समाप्तम् ।।
दीपिका- जिनानां साधूनां गुणोत्कीर्तनं सामान्येन प्रशंसना स्तुतिस्ताभ्यां दानविनयाभ्यां च सम्पन्नः ।। ६८ ।। उक्तं लिङ्गद्वा० ११, फलद्वारं तु शुक्लध्यानाधिकारे वक्ष्यति ।
अवचूर्णिः - किञ्च- श्रुतं सामायिकादि, शीलं व्रतादिलक्षणम्, संयमस्तु प्राणातिपातादिनिवृत्तिलक्षणः, एतेषु रतो धर्मध्यानी ज्ञातव्यः ।।६८।। फलं शुक्लफलाधिकारे वक्ष्यति, उक्तं धर्मध्यानम् ।।
अवचूरिः - किञ्च- जिण० ।। जिन-साधवः प्रतीताः तद्गुणाश्च निरतिचार-सम्यग्दर्शनादयस्तेषामुत्कीर्तनं सामान्येन संशब्दनम्, प्रशंसा अहो श्लाघ्यतया [भक्ति] पूर्विका स्तुतिः, विनयोऽभ्युत्थानादि, दानम् अशनादिप्रदानम्, एतत्सम्पन्नः, श्रुतं सामायिकादि बिन्दुसारान्तम्, शीलं व्रतादिसमाधानलक्षणम्, संयमस्तु प्राणातिपातादिनिवृत्तिलक्षणः, एतेषु रतः धर्मध्यानीति ज्ञातव्यः ।।६८।। द्वार-११
टीका - किञ्च - स्पष्टा । नवरं श्रुतं सिद्धान्तः। शीलं सदाचारः । संयमः प्राणातिपातादिविरतिः। फलद्वारं शुक्लध्यानावसरे वक्ष्यते । उक्तं धर्मध्यानम् ।। ६८ ।।
[अथ शुक्लध्यानम् अह खंतिमद्दवजवमुत्तीओ जिणमयप्पहाणाओ ।
आलंबणाई जेहिं, सुक्कज्झाणं समारुहइ ।। ६९ ।। अर्थलेशः - अह गाथा ।। अथ शुक्लध्यानस्य एतानि आलम्बनानि भवन्ति । यैरालम्बनर्जीवः शुक्लध्यानं समारोहति । कानि आलम्बनानीत्याह । क्षान्ति-मार्दव-आर्जव-मुक्तयः क्षान्तिः उपशमः, माईवं गर्वरहितत्वम्, आर्जवं मायारहितत्वम्, मुक्तिः निर्लोभता । किं विशिष्टा क्षान्ति-माईव-आर्जवमुक्तयः? जिनमतप्रधानाः ।।७१।।
दीपिका - अथ शुक्लम्, इहापि भावनादीनि द्वादशद्वाराणि । तत्राद्यानि चत्वारि तान्येव । आलम्बनादीनि त्वाह- क्षान्त्यादयः क्रोधादित्यागरूपाः ४ आलम्बनानि यैरालम्बनैः, तुरेवार्थे ।। ६९ ।। द्वा० ५ ।
अवचूर्णिः - शुक्लस्यापि भावनादीनि द्वादश द्वाराणि स्युः, तत्र भावनादेशकालासनविशेषेषु न विशेष इत्यालम्बनादीन्याह - अथेत्यासनविशेषानन्तर्ये क्षान्तिमार्दवार्जवमुक्तयः क्रोधादिपरित्यागरूपाः, जिनमतप्रधानाः कर्मक्षयहेतुतामधिकृत्वा ततश्चैता आलम्बनानि ।। ६९ ।।
अवचूरिः - फलं लाघवार्थं शुक्लध्यानफलाधिकारे वक्ष्यति । द्वार-१२ उक्तं धर्मध्यानम् । अथ शुक्लस्यापि भावनादीनि द्वादशद्वाराणि स्युः, तत्र भावना-देश-काल-ऽऽसनविशेषेष्वविशेष इति आलम्बनान्याहअह० ।। अथ इत्यासनविशेषानन्तर्ये क्षान्ति-माईवाऽऽर्जव-मुक्तयः क्रोधादित्यागरूपा जिनमतप्रधानाः कर्मक्षयहेतुतामधिकृत्य, ततश्चैता आलम्बनानि येरालम्बनैः करणभूतैः शुक्लध्यानं समारोहति ।।६९ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org