SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ६३ परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः पद्मलेश्या, उत्कृष्टशुभभावे शुक्ललेश्या स्यात्। तत्र पीतलेश्या-तेजोलेश्या ।। ६६ ।। द्वा० १० अवचूर्णिः - लेश्याद्वारमाह - क्रमविशुद्धाः परिपाटिविशुद्धाः, अयमर्थः - पीतलेश्यायाः पद्मलेश्या विशुद्धा, तस्या अपि शुक्ललेश्या, एताः परिणामविशेषास्तीव्रमन्दादिभेदाः ।।६६।। अवचूरिः - [लेश्याद्वारमाह- होति० ।। भवन्ति क्रमविशुद्धाः लेश्याः ताश्च पीत-पद्मशुक्लाः, धर्मध्यानोपगतस्य तीव्रमन्दादिभेदाः तीव्रभेदाः पीतादिरूपेष्वन्त्याः मन्दभेदास्त्वाद्याः, आदिशब्दान्मध्यमपक्षपरिग्रहः, अथवौघत एव परिणामविशेषात् तीव्रमन्दभेदाः ।।६६।।] द्वार-१० टीका - लेश्याद्वारमाह - स्पष्टा । नवरं परिणामवशात्तीव्रमन्दादिभेदाः ।।६६।। आगमउवएसाणाणिसग्गओ जं जिणप्पणीयाणं । भावाणं सद्दहणं, धम्मज्झाणस्स तं लिगं ।। ६७ ।। अर्थलेशः - आगम गाथा ।। सद्भावानां धर्माधर्मास्तिकायादीनां श्रद्दधानं धर्मध्यानस्य तल्लिङ्गं स्यात् । किं विशिष्टानां भावानाम् ? जिनप्रणीतानां जिनभाषितानाम्, कस्मात् श्रद्दधानं स्यादित्याह । आगमतः सिद्धान्तपठनात्, अपरं उपदेशतो गुरुवचनात्, यद्वा आज्ञात: वीतरागेण कथितं सत्यमेवेति भावात्, यद्वा निसर्गतो जीवस्य सुलभबोधित्वात् ।।६९।।। दीपिका - अथ लिङ्गद्वारम्- १-आगम: सूत्रम्, २-उपदेशोऽर्थकथनम्, ३-आज्ञाऽर्थः, ४निसर्गः स्वभाव एभ्यश्चतुभ्यो यत् जिनप्रणीतानां श्रद्धानम्। इह चूर्णिः ‘लक्खणाणि इमाणि चत्तारिआणाईनिसग्गरुईसुत्तरुईओगाहणारुई । आणारुई तित्थगराणं पसंसन्ति, निसग्गरुई सभावतो जिणप्पणीए भावे रोचइ, सुत्तरुई सुत्तं पढन्तो संवेगमावज्जति, ओगाहणारुई णयवादभंगगुविलं सुत्तं अत्थतो सोऊण संवेगमावन्नसढो झायइ' ।। ६७ ।। अवचूर्णिः - लिङ्गमाह- आगमोपदेशाज्ञानिसर्गतः, तत्रागमः सूत्रम्, तदनुसारेण कथनमुपदेशः, आज्ञा त्वर्थो, निसर्गः स्वभावः, तल्लिङ्गं तत्त्वश्रद्धानेन लिङ्ग्यते धर्मध्यानी ।। ६७ ।। अवचूरिः - लिङ्गमाह- आग० ।। आगमोपदेशाज्ञानिसर्गतो यज्जिनप्राणीतानां भावानां श्रद्धानमवितथा एव इत्यादिरूपं धर्मध्यानस्य तल्लिङ्गम्, आगमः सूत्रमेव, तदनुसारेण कथनमुपदेशः, आज्ञा त्वर्थः, निसर्गः स्वभावः तत्वश्रद्धानेन लिङ्ग्यते धर्मध्यानी ।।६७।।। टीका - लिङ्गद्वारमाह- स्पष्टा ।। ६७ ।। जिणसाहुगुणुक्कित्तणपसंसणाविणयदाणसंपण्णो । सुअसीलसंजमरओ धम्मज्झाणी मुणेयब्बो ।। ६८ ।। अर्थलेशः - जिण गाथा ।। धर्मध्यानध्याता एवंविधो ज्ञातव्यः। किं विशिष्टो धर्मध्यानध्याता? जिनसाधुगुणकीर्तनप्रशंसनाविनयदानसम्पन्नः। तत्र कीर्तनं लोकसाक्षिकम्, प्रशंसना मनसि गुणभावना, Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002560
Book TitleDhyanashatakam Part 2
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages350
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy