________________
६२
ध्यानशतकम् माषतुष- मरूदेव्यादीनामपूर्वधराणामपि तदुपपत्तेः, सुप्रशस्तसंहननाः आद्यसंहननयुक्ताः, इदं पुनरोघत एव विशेषणम्, तथा द्वयोः शुक्लयोः परयोरुत्तरकालभाविनोः सूक्ष्मक्रियानिवृत्ति-उपरतक्रियाअप्रतिपातिलक्षणयोर्यथासङ्ख्यं सयोगायोगाः केवलिनो ध्यातारः ।।६४ ।। द्वार - ८
टीका - प्रस्तावात् शुक्लध्यानस्याऽपि ध्यातृनाह- एते एव धर्मध्यानध्यातारः, एवं पूर्वयोः शुक्लध्यानभेदयोः पृथक्त्ववितर्कसविचारैकत्ववितर्काविचारयोः ध्यातारः । एष तु विशेष: - इह ध्यातारः प्रायः पूर्वधराश्चतुर्दशपूर्वविदः तदुपयुक्ताः सुप्रशस्तसंहननाः आद्यसंहनिनः। द्वयोः परयोः शुक्लध्यानभेदयोः सयोगायोगकेवलिनो ध्यातारः । यतः “सुक्कझाणदुग्गं वोलीणस्स तइयमप्पत्तस्स एयाए । झाणंतरियाए वट्टमाणस्स केवलनाणमुप्पज्जइ ।१।" ।। ६४ ।।
झाणोवरमेऽवि मुणी, णिञ्चमणिञ्चाइचिंतणापरमो ।
होइ सुभावियचित्तो, धम्मज्झाणेण जो पुब्बिं ।। ६५ ।। अर्थलेशः - झाणो गाथा ।। मुनिानोपरमेऽपि ध्याननिवृत्तावपि नित्यमनित्यतादिचिन्तनापरमो भवति । यः साधुः पूर्वं धर्मध्यानेन सुभावितचित्तो भवति ।।६७।।
दीपिका - उक्तं ध्यातृद्वारम्, अथानुप्रेक्षाद्वारम्- यः पूर्वं धर्मध्यानेन सुभावितचित्तः स ध्यानोपरमे ध्यानविगमेऽपि नित्यमनित्यतादिभावनासु परमस्तत्परो भवेत्। गतमनुप्रेक्षाद्वारम् ।।६५ ।। द्वा०९
अवचूर्णिः - अनुप्रेक्षाद्वारमाह- धर्मध्यानोपरमेऽपि मुनिनित्यमनित्यादिचिन्तनापरमः स्यात्, अनित्यताऽशरणैकत्वसंसारानुगताश्चतस्रोऽनुप्रेक्षा भावयितव्या, अनित्यादि चिन्तनापरमः स्यात्, सुभावितचित्तो धर्मध्यानेन यः कश्चित्पूर्वम् ।।६५।।
अवचूरिः - अनुप्रेक्षाद्वारमाह- झाणो० ।। धर्मध्यानोपरमेऽपि मुनिनित्यं सर्वकालमनित्यादिचिन्तनापरमो स्यात्, आदिशब्दादशरणैकत्वसंसारपरिग्रहः । एताश्च चतस्रोऽनुप्रेक्षा भावयितव्याः । किंविशिष्टोऽनित्यादिचिन्तनापरमो स्यादत आह - सुभावितचित्तः सुवासितान्तःकरणः धर्मध्यानेन यः कश्चित् पूर्वमादौ स्यात् ।।६५।। द्वार-९ टीका - अथानुप्रेक्षाद्वारमाह - यः पूर्वं धर्मध्यानेन सुभावितचित्तो भवति ।। ६५ ।।
होंति कमविसुद्धाओ, लेसाओ पीयपम्मसुक्काओ ।
धम्मज्झाणोवगयस्स, तिब्वमंदाइभेयाओ ।। ६६ ।। अर्थलेशः - होति गाथा ।। धर्मध्यानोपगतस्य जीवस्य पीत-पद्य-शुक्ललेश्या भवन्ति । किं विशिष्टा लेश्याः? क्रमविशुद्धाः क्रमेण पूर्वा पीतलेश्या-तेजोलेश्या शुद्धा, ततोपि पद्मलेश्या गाढतरं शुद्धा, ततोपि शुक्ललेश्या अतिगाढतरं शुद्धा। पुनः किं विशिष्टा लेश्या:? तीव्रमन्दादिभेदाः ।। ६८।।
दीपिका - अथ लेश्या: - धर्मध्यानोपगतस्य क्रमेण विशुद्धाः पीतपद्मशुक्ललेश्याः परिणामविशेषास्तीव्रमन्दादिभेदाः, आदिशब्दान्मध्यमाश्च स्युः, कोऽर्थः-जघन्ये शुभभावे पीतलेश्या, मध्यमे शुभभावे
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org