SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ६१ परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः अवचूर्णिः - अथ येऽस्य ध्यातारस्तानाह - क्षीणोपशान्तमोहाश्च, चशब्दादन्ये वाऽप्रमादिनो ध्यातारो धर्मध्यानस्य ।।६३।। अवचूरिः - गतं ध्यातव्यद्वारम्, अथ येऽस्य ध्यातारस्तान् आह - सव्व० ।। सर्वप्रमादैः रहिता मुनयः क्षीणोपशान्तमोहाश्च इति क्षीणमोहा उपशान्तमोहाश्चब्दादन्ये वाऽप्रमादिनः ध्यातारश्चिन्तका धर्मध्यानस्य । ध्यातार एव विशेष्यन्ते - ज्ञानधनाः ।।६३ ।।.. टीका - गतं ध्यातव्यद्वारम्, ध्यातॄनाह-स्पष्टा । नवरं चशब्दादन्येप्यऽप्रमादिनः ।। ६३।। एएञ्चिय पुवाणं, पुव्वधरा सुप्पसत्थसंघणया । दोण्ह सजोगाजोगा, सुक्काण पराण केवलिणो ।। ६४।। अर्थलेशः - एएञ्चिय गाथा ।। शुक्लध्यानस्य पूर्वयोर्भेदयोरेते एव पूर्वोक्ताः अप्रमत्तो मुनयो ध्यातारः स्युः । किं विशिष्टा एते? पूर्वधराः, अपरं सुप्रशस्तसङ्घनना वज्रऋषभनाराचसंघननयुक्ताः। तथा परयोः शुक्लध्यानभेदयोातारः केवलिनः सयोगगुणस्थानवर्तिनः अयोगगुणस्थानवर्तिनश्च ज्ञेयाः ।।६६।। दीपिका - लाघवार्थं शुक्लध्यानाद्यभेदयोरपि ध्यातॄनाह- अप्रमत्ता उपशामकाः क्षपकाश्च एते एव च प्रागुक्ताः शुक्लस्य पूर्वयोर्द्वयोर्भेदयोः पृथक्त्ववितर्कसविचारम्- एकत्ववितर्कअविचारं इत्यनयोर्ध्यातारः, परं चतुर्दशपूर्वधराः पूर्वेषूपयुक्ता एव सन्तो ध्यातारोऽन्ये तु माषतुषमरुदेव्यादयो यथासम्भवमप्रमत्तक्षीणमोहत्वादिविशेषेण युक्ता ध्यातारः, 'सुप्प' आद्यसंहननाः। उपशामकस्य क्षपकस्य च केवलज्ञानादर्वाक् शुक्लध्यानाद्यभेदद्वयं स्यात् । परयोः शुक्लभेदयोः सूक्ष्मक्रियाऽनिवर्ति-उपरतक्रियाऽप्रतिपातिनो: क्रमात् सयोगायोगा: केवलिनो ध्यातारः, यत: 'सुक्कज्झाणाइदुगं वोलीणस्स तइयमप्पमत्तस्स एयाए झाणंतरियाए वट्टमाणस्स केवलं उप्पज्जइ, केवली सुक्कलेसो अज्झाणी य जाव सुहमकिरियमनियट्टि' त्ति ।। ६४ ।। अवचूर्णिः - लाघवार्थं शुक्लध्यानस्याप्याह- एते एव ये धर्मध्यानस्य ध्यातार उक्ताः, पूर्वयोः शुक्लध्यानभेदयोः पृथक्त्ववितर्कसविचारम्- एकत्ववितर्कमविचारमित्यनयोर्ध्यातारः, अयं पुनर्विशेष:पूर्वधराश्चतुर्दशपूर्वविदः तदुपयुक्ताः, इदं च पूर्वधरविशेषणमप्रमादवतामेव ज्ञेयम्, न क्षीणमोहादीनां [निर्ग्रन्थानाम्], माषतुषमरुदेव्यादीनामपूर्वधराणामपि तदुपपत्तेः, सुप्रशस्तसंहनना: आद्यसंहननयुक्ताः, इदमोघत एव विशेषणम्, तथा द्वयोः शुक्लयोः परयोः सूक्ष्मक्रियानिवृत्ति-व्युपरतक्रियाऽप्रतिपातलक्षणयोर्यथासङ्ख्यं सयोगायोगकेवलिनो ध्यातारः ।। ६४ ।। अवचूरिः - लाघवार्थं साम्प्रतं शुक्लध्यानस्याप्याह - एए० ।। एत एव ये धर्मध्यानस्य ध्यातार उक्ताः पूर्वयोराद्ययोर्द्वयोः शुक्लध्यानभेदयोः पृथक्त्ववितर्कसविचारमेकत्ववितर्कमविचारमित्यनयोः ध्यातारः । अयं पुनर्विशेषः - पूर्वधराश्चतुर्दशपूर्वविदस्तदुपयुक्ताः , इदं च पूर्वधरविशेषणमप्रमादवतामेव वेदितव्यम्, न क्षीणमोहादीनाम्, Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002560
Book TitleDhyanashatakam Part 2
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages350
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy