________________
६०
ध्यानशतकम् एकान्तिकम् एकान्तभावि, निराबाधं स्वाभाविकमकृत्रिमम्, शाश्वतम्, निरुपमम्, सौख्यं यथोपयान्ति लभन्ते तथा विचिन्तयेत् ।। ६१ ।।
अवचूर्णिः - तत्र च निर्वाणपुरे त्रिरत्नानि ज्ञानादीनि, विनियोगश्चैषां क्रियाकरणम्, ततः प्रसूते: तदात्मकम्, तथैकान्तिकमेकान्तभावि, यथा सौख्यमक्षयमुपयान्ति प्राप्नुवन्ति, क्रिया पूर्ववत् ।। ६१।।
अवचूरिः - तत्थ० ।। तत्र च निर्वाणपुरे त्रीणि रत्नानि ज्ञानादीनि विनियोगश्चैषां क्रियाकरणं तदात्मकं ततः प्रसूतेः तथा ऐकान्तिकम् ऐकान्तभावि [निराबाधम् स्वाभाविकं निरूपमम्] यथा सौख्यम् अक्षयमुपयान्ति प्राप्नुवन्ति तथा चिन्तयेत् ।।६१।।
टीका - तत्र च निर्वाणपुरे त्रीणि रत्नानि ज्ञानादीनि तेषां विनियोगस्तेन निर्वृत्तं त्रिरत्नमयम्, एकान्तिकम्, निराबाधम्, स्वाभाविकमकृत्रिमम्, निरुपमं यथा सौख्यमक्षयमुपयान्ति गच्छन्ति तथा चिन्तयेत् ।। ६१ ।।
किं बहुणा ? सव्वं चिय, जीवाइपयत्थवित्थरोवेयं।
सव्वनयसमूहमयं, झाइज्ज़ा समयसब्भावं ।। ६२।। अर्थलेशः - किं बहुणा गाथा ।। किं बहुना प्रोक्तेन? सुधीः सर्वमेव समयसद्भावं सिद्धान्ततत्वं ध्यायेत् । किं विशिष्टं समयसद्भावम्? जीवादिपदार्थविस्तारोपेतं तथा सवर्नयसमूहमयम् ।।६२।।
दीपिका - किं बहुनोक्तेन? जीवाजीवादिपदार्थविस्तरोपेतम्, समयसद्भावं सिद्धान्तस्वरूपम् ।। ६२।। उक्तं ध्यातव्यद्वारम्।
अवचूर्णिः - किं बहुना भाषितेन ? सर्वमेव जीवादिपदार्थविस्तरोपेतम्, सर्वनयसमूहात्मकं ध्यायेत्समयसद्भावं सिद्धान्तार्थम्।। ६२ ।।
अवचूरिः - किं बहु० ।। किंबहुना भाषितेन ? सर्वमेव जीवादिपदार्थविस्तारोपेतं सर्वनयसमूहात्मकं ध्यायेत् समयसद्भावं सिद्धान्तार्थम् ।।६२ ।। द्वार-७
टीका - किं बहुना भाषितेन ? सर्वमेव जीवादिपदार्थविस्तरोपेतम्, सर्वनयसमूहमयं ध्यायेत्। समयसद्भावं सिद्धान्तसारम् ।। ६२ ।।
सव्वप्पमायरहिया, मुणओ खीणोवसंतमोहा य ।
झायारो नाणधणा धम्मज्झाणस्स निद्दिट्ठा ।। ६३ ।। अर्थलेशः - सव्व गाथा ।। धर्मध्यानस्य ध्यातारो मुनयो भवन्ति । किं विशिष्टा मुनयः ? सर्वप्रमादरहिताः, तथा क्षीणोपशान्तमोहाः, अपरं ज्ञानधनाः। एवंविधा ध्यातारो निर्दिष्टाः ।।६५ ।।
दीपिका - अथ ध्यातृद्वारम्- सर्वप्रमादरहिता इत्यप्रमत्ताः क्षीणमोहा उपशान्तमोहाच, मुनयो ज्ञानधना धर्मध्यानस्य ध्यातारः स्युः । अप्रमत्तोपशान्तमोहक्षीणमोहानामेकादशाङ्गविदां प्रायो धर्मध्यानं स्यात् ।। ६३ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org