________________
परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः आदेर्जरामरणग्रहः बहुत्वाज्जलमिव जलं यस्मिन्, कषायाः अगाधभवजननसामान्येन पातालमिव पातालम्, व्यसनशतश्वापदवन्तं व्यसनानि दुःखानि द्यूतादीनि वा, 'मणं'ति देशीशब्दो मत्वर्थीयः, मोहावर्त्तम्, विशिष्टभ्रमिजनकत्वाद्, अतिभया-नकम् ।।५६।। ___ अण्णा० ।। अज्ञानमारुतेनेरितः प्रेरितः संयोग-वियोग-वीचिसन्तानो यस्मिन् स तथा तम्, 'अणोरपारं'ति अनाद्यपर्यवसितम्, अशुभं चिन्तयेत्, तस्य गुणरहितस्य जीवस्य ।।५७ ।।
तस्स० ।। तस्य च संसारसागरस्य संतरणसहं समर्थम्, सम्यग्दर्शनमेव शोभनं बन्धनं यस्य स तथा तम्, अनघम् अपापम्, ज्ञानमयः कर्णधारो निर्यामकविशेषो यस्मिन् स तथा तम्, चारित्रमयं चारित्रात्मकं महापोतं विचिन्तयेत् ।।५८।।
संव० ।। आश्रवनिरोधः संवरस्तेन कृतं निश्छिद्रं स्थगितरन्ध्रमित्यर्थः, तपःपवनस्तेनऽऽविद्धस्य प्रेरितस्य जवनतरः शीघ्रतरो वेगः यस्य स तथा तम्, वैराग्यमेवेष्टपुरप्रापकत्वान्मार्गस्तस्मिन् पतितः गतः, विस्रोतसिका अपध्यानानि ता एवेष्टपुरप्राप्तिविघ्नहेतुत्वाद्वीचयस्ताभिर्निक्षोभ्यः निष्प्रकम्पस्तम् ।।५९।।
आरो० ।। आरुह्य मुनिवणिजोऽतिनिपुणमाय-व्ययपूर्वकं प्रवृतेः । पोत एव विशिष्यते - महा_णि शीलाङ्गानि पृथिवीकायसमारम्भपरित्यागादीनि तान्येव रत्नानि, तैः परिपूर्णस्तम्, यथा तत् प्रक्रान्तं निर्वाणपुरं शीघ्रमविघ्नेन प्राप्नुवन्ति तथा विचिन्तयेत् ।।६० ।।
टीका - तस्य जीवस्य गुणरहितस्य संसारसागरं विचिन्तयेत् । किम्भूतम् ? स्वकर्मजनितं जन्मादिजलं कषायपातालकलशम्। मणशब्दो देश्यो मत्वर्थीय: ततो व्यसनशतश्वापदवन्तं मोहावर्त महाभीमम्। अज्ञानमारुतेरितसंयोगवियोगवीचिसन्तानम्, अणोरपारम् अपारम् अशुभम् ।।५६-५७ ।।
तिसृभिः सम्बन्धः । तस्य संसारसागरस्य सन्तरणसमर्थं सम्यग्दर्शनसुबन्धनम्, अनघं नि:पापम्, ज्ञानमयो ज्ञानात्मकः कर्णधारो यत्र तं चारित्रमयं महापोतम्, संवरेण कृतनिच्छिद्रं कृताश्रवरूपच्छिद्रस्थगनम्, तपःपवनस्याविद्धं ताडनं प्रेरणं तेन जवनतरवेगम, वैराग्यमेवेष्टपुरप्रापकत्वान्मार्गस्तत्र पतितम् । विश्रोतसिका अपध्यानाद्यास्ता एव वीचयस्ताभिनि:क्षोभ्यम्, महाऱ्याशीलाङ्गरत्नप्रतिपूर्णमारुह्य मुनिवणिजो यथा तं निर्वाणपुरं शीघ्रमविघ्नेन प्राप्नुवन्ति तथा चिन्तयेदिति वर्त्तते ।। ५८-५९-६० ।।
तत्थ य तिरयणविणिओगमइयमेगंतियं निराबाहं ।
साभावियं निरुवमं, जह सोक्खं अक्खयमुर्वेति ।। ६१ ।। अर्थलेशः - तत्थ य गाथा ।। तत्र मुक्तिनगरे जीवा यथा अक्षयसोख्यमुपयाति । किं विशिष्टं सौख्यम् ? त्रिय[त्रिरत्नविनियोगमयं त्रिय[त्रिरत्नानि ज्ञानदर्शनचारित्राणि तेषां विनियोगो व्यापार: तन्मयं तत्सहितमित्यर्थः, तथा एकान्तिकः एको अन्तो संसारस्य यत्र यद्वा एकान्तिकम् एकं सुखमेव न तु दुःखम्, अपरम् अनाबाधं शूलाद्याबाधारहितं तथा स्वाभाविकम्, अपरं निरूपमं धर्मध्याता तथा चिन्तयेत् ।।६३।।
दीपिका - तत्र निवृत्तौ, त्रिरत्नी ज्ञानादिका तस्या विनियोगः क्रिया तस्मादुत्पन्नत्वात् तन्मयम्,
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org