SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ध्यानशतकम् जलभ्रमिरूप आवतॊ यत्र तथा महाभीमम् अतिरौद्रम्, अपरमज्ञानमारुतेनेरितं संयोगवियोगवीचिसन्तानम्, तथा अणोरपारं पाररहितम्, तथा अशुभम् ।।५८-५९।। तस्स य गाथा ।। संवर गाथा ।। आरोढुं गाथा ।। मुनिवणिजा चारित्रमयं महापोतम् आरुह्य यथा परिनिर्वाणपुरं मुक्तिनगरं यथा शीघ्रं प्राप्नुवन्ति सुधीस्तथा चिन्तयेत् । किं विशिष्टं चारित्रमयं महापोतम् ? तस्य संसारसमुद्रस्य सन्तरणसमर्थः, सम्यग्दर्शनसुबन्धनमहाय॑म् सम्यक्त्वमेव सुष्ठु बन्धनं तेन महाघ - बहुमूल्यम्, अपरं ज्ञानमयकर्णधारम् ज्ञानरूपः कर्णधारो बेडीवाहो यत्र, तथा संवरकृतनिश्छिद्रम्, अपरं तपःपवनाबद्धय[ज]वनतरवेगं तपःपवनेन आबद्धस्तीव्रो वेगो यस्य, तथा वैराग्यमार्गपतितम्, अपरं विश्रोतसिका मनोव्याकुलताभा एव वीचयः ताभिरक्षोभ्यम्, अपरं महाघशीलाङ्गरत्नपरिपूर्णम् ।। ६०-६१-६२।।। दीपिका - तस्य जीवस्य स्वकर्मजनितं संसारसागरं चिन्तयेत्, किम्भूतं सागरम् ? जन्मादिजलं जन्मादय एव जलं यत्र, कषायपातालकलशम्, व्यसनशतश्वापदवन्तम्, 'मण'शब्दो मत्वर्थे, मोह एवावतॊ यत्र । अज्ञानमेव मारुतो वायुस्तेनेरितः प्रेरित: संयोगवियोगरूपो वीचीसन्तान: कल्लोलपरम्परा यस्मिन् तम्, 'अणोरपारं' अनाद्यनन्तम्, अशुभं विचिन्तयेत् ।।५६-५७ ।। तस्य च संसारसागरस्य 'सन्तरणसहं' तरणाय क्षमम्, तथा सम्यग्दर्शनमेव सुबन्धनं यस्य तम्, अनघं नि:पापम्, अनर्घ्यममूल्यं वा, ज्ञानमयः कर्णधारो बेडीवाहो यत्र तम्, चारित्रमयं चारित्रात्मकम्, महापोतम्, संवरेण नि:छिद्रीकृतम्, तपःपवनेनाऽऽविद्धस्य प्रेरितस्य जवनतरः शीघ्रतरो वेगो यस्य तम्, वैराग्यमार्गे पतितम्, विश्रोतसिका अपध्यानं ता एव वीचयस्ताभिनि:क्षोभ्यम्, मुनय एव वणिज आरुह्य, किम्भूतं पोतम्? महा_णि शीलाङ्गानि पृथिव्याद्यारम्भत्यागरूपाणि तान्येव रत्नानि तैः प्रतिपूर्ण भृतम्, यथा परिनिर्वाणपुरं मुक्तिस्तत्पुरं शीघ्रमविघ्नेन प्राप्नुवन्ति ।। ५८-५९-६० ।। अवचूर्णिः - तस्य च जीवस्य स्वकर्मजनितम्, संसारसागरमिति वक्ष्यति, व्यसनशतश्वापदवन्तम्, व्यसनानि दुःखानि द्यूतादीनि वा ।। ५६ ।। अज्ञानमारुतेनेरितः प्रेरितः, संयोगवियोगवीचिसन्तानो यस्मिन् स तथा तम् ।। ५७ ।। अनघम्, ज्ञानमयः कर्णधारः निर्यामकविशेषो यस्मिन् स तथा तम्, चारित्रात्मकं महापोतं विचिन्तयेत् ।। ५८ ।। ___ संवरेण कृतं निश्छिद्रम, तपःपवनेनाऽऽविद्धः प्रेरितः जवनतर: शीघ्रतरो वेगो यस्य स तथा तम्, वैराग्यमार्गे पतितं गतं विस्रोतसिका: अपध्यानानि ।। ५९ ।। मुनिवणिजः, पोत एव विशेष्यते - महाणि शीलाङ्गानि पृथिवीकायसमारम्भपरित्यागादीनि, तान्येव रत्नानि तैः परिपूर्णस्तम्, यथा तत्रिर्वाणपुरं शीघ्रमविघ्नेन प्राप्नुवन्ति तथा विचिन्तयेत् ।।६० ।। ___ अवचूरिः - तस्स० ।। तस्य जीवस्य स्वकर्मजनितं संसारसागरमिति वक्ष्यति । जन्मादयो Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002560
Book TitleDhyanashatakam Part 2
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages350
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy