________________
परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः
५७ घनोदधिघनवाततनुवाताख्यानि, द्वीपादि प्रतीतम्, व्योमादिप्रतिष्ठानं नियतं शाश्वतम्। लोकस्थितिविधानं लोकस्थितिप्रकारम् ।।५४।।
उवओगलक्खणमणाइनिहणमत्थंतरं सरीराओ ।
जीवमरूविं कारिं, भोइं च सयस्स कम्मस्स ।।५५ ।। अर्थलेशः - उवओ गाथा ।। सुधीर्जीवम् अरुपिणं मनसि कृत्वा ध्यायेत् । किं विशिष्टं जीवम्? उपयोगलक्षणं चेतनालक्षणं तथा अनादिनिधनम्, अपरं शरीरात् अर्थान्तरं पृथक्भूतम्, अपरं स्वकस्य कर्मणो भोक्तारम् ।।५७ ।।
दीपिका- प्रसङ्गाद् ध्यातव्यविशेषमाह- उपयोगः साकारानाकारादिलक्षणं यस्य, शरीरादर्थान्तरं पृथग्भूतम्, जीवमरूपिणम्, कर्मणः कर्तारम्, स्वकस्य कर्मणो भोक्तारम् ।।५५ ।। ___ अवचूर्णिः - अर्थान्तरं पृथग्भूतं शरीरात् शरीरेभ्यः ।। ५५ ।।।
अवचूरिः - उव० उपयोगलक्षणम् अनाद्यनिधनम् अर्थान्तरं पृथग्भूतम् शरीराद् अरूपिणं कर्तारं कर्मण इति गम्यम्, भोक्तारं स्वस्य कर्मणः ।।५५ ।।
टीका- किञ्च - उपयोगश्चैतन्यं तल्लक्षणमनादिनिधनम्, भवप्रवाहापेक्षया नित्यम्, शरीरादर्थान्तरं पृथग्भूतम् जीवमरूपिणम् कारिणम् भोगिनं स्वकस्य कर्मणः ।।५५ ।।
तस्स य सकम्मजणियं, जम्माइजलं कसायपायालं । वसणसयसावयमणं मोहावत्तं महाभीमं ।।५६।। अण्णाणमारुएरियसंजोगविजोगवीइसंताणं । संसारसागरमणोरपारमसुहं विचिंतेजा ।। ५७ ।। तस्स य संतरणसहं सम्मइंसणसुबंधणमणहं । णाणमयकण्णधारं, चारित्तमयं महापोयं ।। ५८ ।। संवरकयनिच्छिदं, तवपवणाइद्धजइवणतरवेगं । वेरग्गमग्गपडियं, विसोत्तियावीइनिक्खोभं ।। ५९ ।। आरोढुं मुणिवणिया, महग्घसीलंगरयणपडिपुत्रं ।
जंह तं निव्वाणपुरं सिग्घमविग्घेण पाविति ।।६० ।। अर्थलेशः - तस्स य गाथा ।। अण्णाण गाथा ।। सुधीः तस्य जीवस्य एवंविधं संसारसागरं चिन्तयेत् । किं विशिष्टं संसारसागरम् ? स्वकर्माजनितं निजकर्मोपार्जितम्, तथा जन्मादिजलं जन्मजरामरणादिपानीयसहितम्, अपरं कषायपातालं चत्वारकषायाः पातालकलशा यत्र, तथा व्यसनशतश्वापदं कष्टशतजलचरजीवसहितम्, अपरम् इदं मोहावर्त प्रत्यक्षधनधान्यभार्यादिमोहरूपो
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org