SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ध्यानशतकम अर्थः पूर्ववत्, क्षेत्रलोकमधिकृत्याह - त्रिविधमधोलोकभेदादिम् ।।५३।। टीका - किञ्च - नामादिभेदविहितं नामस्थापनादिभेदैश्चतुर्विंशतिस्तवे स्थापितम्, त्रिविधमधोलोकोर्ध्वलोकतिर्यग्लोकभेदात् ।।५३।। खिइवलयदीवसागरनरयविमाणभवणाइसंठाणं । वोमाइपइट्ठाणं, निययं लोगट्टिइविहाणं ।। ५४ ।। अर्थलेशः खिइ गाथा ।। सुधीनियतं लोकस्थितिविधानं लोकस्य संस्थानप्रकोरं चिन्तयेत्। किं विशिष्टं लोकस्थितिविधानम्? क्षितिवलयद्वीपसागरनरकविमानभवनादिसंस्थानम् । क्षिति पृथ्वी, वलयानि घनोदधिघनवाततनुवातसंज्ञानि, द्वीपाः सागराश्च असङ्खयेयाः, नरका: सप्त, विमानानि ज्योतिष्कसौधर्मदेवलोकादीनि, भवनानि असुरकुमारादीनाम् आदिशब्दान्मेरुपर्वतादयः पदार्थाः । तेषां संस्थानं रचना यत्र तथा व्योमादिप्रतिष्ठानम् आकाशादिप्रतिष्ठासहितम् ।। ५६ ।। दीपिका- तत्र च - क्षितयो धर्माद्याः ईषत्प्राग्भारान्ताः ८। वलयानि घनोदधिघनतनुवातात्मकानि भूमिसप्तकोपरिक्षेपीणि, द्वीपाब्धयोऽसङ्ख्याः , निरया - नरकाः, विमानानि ज्योतिष्कादीनामनुत्तरान्तानाम्, भवनान्यसुरादीनाम्, आदितो व्यन्तरपुराणि तेषां क्षितिवलयादीनां संस्थानमाकारविशेषं, ('वोमाइ') आदितो वाय्वादौ प्रतिष्ठानमवस्थितिर्यस्य तद्, नियतं शाश्वतम्, लोकस्थितेविधानं प्रकारस्तच्चिन्तयेत्। उक्त: संस्थानविचयो धर्मध्यानस्य तुर्यो भेदः ४ ।। ५६ ।। __ अवचूर्णिः - तस्मिन्नेव क्षेत्रलोके इदं विचिन्तयेद्- क्षितयो घाद्या ईषत्प्राग्भारावसाना अष्टौ भूमयः, वलयानि घनोदघिघनतनुवातात्मकानि घर्मादिसप्तपृथिवीपरिक्षेपीण्येकविंशतिः, द्वीपाः सागराश्चासङ्ख्येयाः, निरयाः सीमन्तकाद्याः, विमानानि ज्योतिष्कादिसम्बन्धीनि, भवनानि असुरादिदशनिकायसम्बन्धीनि, आदिशब्दादसङ्ख्येयव्यन्तरनगरपरिग्रहः, एतेषां संस्थानं विचिन्तयेत्, तथा व्योम आकाशम्, आदिशब्दाद्वाय्वादिपरिग्रहः, व्योमादौ प्रतिष्ठानमस्येति तत्तथा, लोकस्थितिविधानम्, विधानं प्रकारः, लोकस्य स्थितिमर्यादा तद्विधानम्, नियतं नित्यं शाश्वतं चिन्तयेत् ।।५४ ।। अवचूरिः - किञ्च तस्मिन्नेव क्षेत्रलोके इदं चेदं च विचिन्तयेदित्याह - खिइ० ।। क्षितयो घर्माद्या ईषत्प्राग्भारावसाना अष्टौ भूमयः । वलयानि घनोदधि-घनवात-तनुवातात्मकानि घर्मादिसप्तपृथिवीपरिक्षेपीण्येकविंशतिः । द्वीपाः । सागराः असंख्येयाः । निरयाः सीमन्तकाद्याः विमानानि द्योतकादिसम्बन्धीनि । भवनानि भवनवास्यालयलक्षणानि । आदिशब्दाद् व्यन्तरनगरग्रहः । एतेषां संस्थानमाकारविशेषलक्षणं चिन्तयेद. व्योम आकाशम, आदिशब्दाद वाय्वादिग्रहः, व्योमादौ प्रतिष्ठानमस्य तत्, लोकस्थितिविधानमिति योगः, विधानं प्रकारः लोकस्य स्थितिः मर्यादा तद्विधानं नियतं नित्यं - शाश्वतं विचिन्तयेत् ।।५४ ।। टीका - इदं च लोकमध्ये चिन्तयेदित्याह - क्षितयो रत्नप्रभाद्याः ईषत्प्राग्भारा च, वलयानि Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002560
Book TitleDhyanashatakam Part 2
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages350
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy