SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः वीतरागोपदिष्टं तथा नामादिभेदविहितं चतुर्विंशतिस्तवे नामादिभि दृष्टप्रकारैः प्ररूपितं तथा अधोलोकभेदादिभिस्त्रिविधम् - अधोलोकः १, तिर्यग्लोकः २, उर्ध्वलोकः ३, एवं त्रिभेदम् ।।५५ ।।। दीपिका- पञ्चास्तिकायमयम्, अस्तयः प्रदेशास्तेषां कायाः समुदाया अस्तिकायास्ते पञ्च, धर्माधर्माकाशजीवपुद्गलास्तिकायरूपास्तन्मयम्। कालोऽस्तिकायो न, तस्य स्थिरत्वेन प्रदेशचयाभावात्। तथाऽनादिनिधनम्, जिनाख्यातं नामलोकादिपूर्वोक्ताष्टभेदभिन्नमधोलोकादिभेदं त्रिविधं लोकं चिन्तयेत् ।।५३।। अवचूर्णिः - पञ्चास्तिकायमयम्, अस्तिकायाः - धर्मास्तिकायादयस्तेषां चेदं स्वरूपं-- 'जीवानां पुद्गलानां च, गत्युपग्रहकारणम्। धर्मास्तिकायो ज्ञानस्य दीपश्चक्षुष्मतो यथा ।।१।। जीवानां पुद्गलानां च, स्थित्युपष्टम्भकारणम् । अधर्म: पुरुषस्येव, तिष्ठासोरवनिस्समा ।।२।। जीवानां पुद्गलानां च, धर्माधर्मास्तिकाययोः। बदराणां घटो यद्व-दाकाशमवकाशदम् ।।३। ज्ञानात्मा सर्वभावज्ञः, भोक्ता कर्ता च कर्मणाम् । नानासंसारिमुक्ताख्यः जीवः प्रोक्तो जिनागमे ।। ४ ।। स्पर्शरसगन्धवर्ण-शब्दमूर्तस्वभावकाः। सङ्घातभेदनिष्पन्नाः, पुद्गला जिनदेशिताः ।। ५ ।।' जिनाख्यातमित्यादरख्यापनार्थत्वान्न पुनरुक्तम्, उक्तं च - 'अनुवादादरवीप्साभृशार्थविनियोगहेत्वसूयासु । ईषत्सम्भ्रमविस्मयगणनास्मरणेष्वपुनरुक्तम् ।। १ ।।' तथा नामादिभेदभिन्नं - 'नामं ठवणा दविए, खित्ते काले भवे अ भावे अ । पज्जवलोगो अ तहा, अट्ठविहो लोगनिक्खेवो ।। १।।' अर्थः पूर्ववत्, क्षेत्रलोकमधिकृत्याह-त्रिविधमधोलोकादिभेदम् ।। ५३ ।। अवचूरिः - किञ्च - पंच० ।। पञ्चास्तिकायमयं तत्रास्तयः प्रदेशास्तेषां काया, एते च धर्मास्तिकायादयस्तेषां चेदं स्वरूपम्, “जीवानां पुद्गलानां च, गत्युपग्रहकारणम् । धर्मास्तिकायो ज्ञानस्य, दीपश्चक्षुष्मतो यथा ।। जीवानां पुद्गलानां च, स्थित्युपग्रहकारणम् । अधर्मः पुरुषस्येव, तिष्ठासोरवनिस्समा ।। जीवानां पुद्गलानां च, धर्माधर्मास्तिकाययोः । बदराणां घटो यद्व-दाकाशमवकाशदम् ।। ज्ञानात्मा सर्वभावज्ञः, भोक्ता कर्ता च कर्मणाम् । नाना संसारिमुक्ताख्यः, जीवः प्रोक्तो जिनागमे ।। स्पर्श-रस-गन्ध-वर्ण-शब्द-मूर्तस्वभावकाः । सङ्घातभेदनिष्पन्नाः, पुद्गला जिनदेशिताः ।। लोकम् अनाद्यनिधनम् जिनाख्यातमित्यादरख्यापनार्थत्वात्, न पुनरुक्तः । तथा नामादिभेदभिन्नम्, “नाम ठवणा दविए, खेत्ते काले भवे अ भावे य । पज्जवलोगो य तहा, अट्ठविहो लोगनिक्खेवो । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002560
Book TitleDhyanashatakam Part 2
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages350
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy