________________
५४
ध्यानशतकम् षष्ठ्यांषिष्ठ]गाथायाम्, द्रव्याणामिति प्रतिपदमायोज्यम्, तत्र लक्षणं धर्मास्तिकायादिद्रव्याणां गत्यादि, तथा संस्थानं परिमण्डलाद्यजीवानाम्, जीवशरीराणां च समचतुरस्रादि, कालस्य मनुष्यक्षेत्राकृतिः, सूर्यादिक्रियाऽभिव्यङ्गम्यो हि काल: किल मनुष्यक्षेत्र एव वर्त्तते, अतो य एवास्याकारः स एव कालस्योपचारतो विज्ञेयः, धर्माधर्मयोरपि लोकक्षेत्रापेक्षया भावनीयम्, तथा आसनानि आधारलक्षणानि धर्मास्तिकायादीनां लोकाकाशादीनि स्वस्वरूपाणि वा, तथा विधानानि धर्मादीनाम्, यथा-'धम्मत्थिकाए धम्मत्थिकायस्स देसे धम्मत्थिकायस्स पएसे' इत्यादि, तथा मानानि धर्मादीनामेवात्मीयानि, तथा उत्पादस्थितिभङ्गादिपर्याया ये च द्रव्याणां धर्मास्तिकायादीनां तान् विचिन्तयेत्, तत्र धर्मास्तिकायो विवक्षितसमयसम्बन्धरूपापेक्षयोत्पद्यते, तदनन्तरातीतसमयसम्बन्धरूपापेक्षया तु विनश्यति, धर्मास्तिकाय द्रव्यात्मना तु नित्यः, आदिशब्दादगुरुलघ्वादिपर्यायपरिग्रहः ।। ५२ ।।
• अवचूरिः - चतुर्थमाह - जिण० ।। जिनदेशितानि लक्षण-संस्थानाऽसन-विधान-मानानि विचिन्तयेद् वक्ष्यति षष्ठ्यां [षष्ठ] गाथायाम् । द्रव्याणामिति प्रतिपदमाज्यम् । तत्र लक्षणं [धर्मास्तिकायादिद्रव्याणां गत्यादि । संस्थानं पुद्गलरचनाकारलक्षणं परिमण्डलाद्यजीवानाम्, धर्माधर्मयोरपि लोकक्षेत्रापेक्षया भावनीयम् । तथाऽऽसनानि आधारलक्षणानि धर्मास्तिकायादीनां लोकाकाशादीनि स्वस्वरूपणि वा । विधानानि] धर्मास्तिकायादीनामेव भेदान् - यथा, 'धम्मत्थिकाए धम्मत्थिकायस्स देसे, धम्मत्थिकायस्स पएसे' इत्यादि । तथा मानानि प्रमाणानि धर्मास्तिकायादीनामेवात्मीयात्मीयानि । तथोत्पाद-स्थिति-भङ्गादिपर्याया ये च द्रव्याणां धर्मास्तिकायादीनां तान् विचिन्तयेत्, धर्मास्तिकायो विवक्षितसमयसम्बन्धरूपापेक्षयोत्पद्यन्ते, तदनन्तरातीतसमयसम्बन्धरूपापेक्षया तु विनश्यति, धर्मास्तिकाय द्रव्यात्मना तु नित्य, आदिशब्दादगुरुलघ्वादिपर्यायग्रहः ।।५२।।
टीका - चतुर्थमाह - जिनदेशितानि लक्षणसंस्थानासनविधानमानानि द्रव्याणां विचिन्तयेदिति षष्ठगाथापर्यन्ते सम्बन्धः । तत्र लक्षणं धर्मास्तिकायादीनां द्रव्याणां गत्यादि । संस्थानं लोकाकाशस्येव धर्माधर्मयोः, जीवानां समचतुरस्रादि, अजीवानां परिमण्डल-वृत्त-त्र्यस्र-चतुरस्रा-ऽऽयतरूपम्, कालो मनुष्यक्षेत्राकृतिः, तस्य तत्रैव भावात् । तथा आसनमाधारः सर्वेषां लोकाकाशम् । विधानानि भेदाः धर्मास्तिकायः धर्मास्तिकायदेश: धर्मास्तिकायप्रदेश इत्यादि । तथा एषां मानान्यात्मीयप्रमाणानि। उत्पादस्थितिभङ्गादिपर्यायाश्च ये द्रव्याणां तत्र धर्मास्तिकायो वर्तमानसमयसम्बन्धरूपापेक्षयोत्पद्यते। अतीतसमयसम्बन्धरूपापेक्षया विनश्यति । धर्मास्तिकायद्रव्यात्मना तु नित्यः, एवं सर्वेषाम् ।। ५२।।
पंचत्थिकायमइयं, लोगमणाइणिहणं जिणक्खायं ।
णामाइभेयविहियं, तिविहमहोलोयभेयाइं ।।५३।। अर्थलेशः - पंचत्थि गाथा ।। सुधीरेवंविधं लोकं विचिन्तयेत् । किं विशिष्टं लोकम् ? पञ्चास्तिकायमयः १-धर्मास्तिकायः, २-अधर्मास्तिकायः, ३-आकाशास्तिकायः, ४-जीवास्तिकायः, ५-पुद्गलास्तिकायः । एतैरस्तिकायैः परिपूर्णमित्यर्थः। तथा अनादिनिधनमाद्यंतरहितम्, अपरं जिनाख्यातं
JainEducation International 2010_02
For Private & Personal Use Only
www.jainelibrary.org