________________
परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः विस्तारितपादाभ्यां स्यात् । समयावलिकादिकस्य व्यावहारिककालस्य संस्थानं नृक्षेत्रतुल्यम् अल्पं सूर्यचारप्रभवत्वात् सूर्यचारश्च नृक्षेत्र एव। अन्यत्र पल्योपमादिव्यवहारः एतदपेक्षया ज्ञेयः । पुद्गलानां संस्थानं वृत्त-व्यस्रादि । देहस्थितजीवानां समचतुरस्रादिः ।
आसनमाधारः तच्च धर्मास्तिकायादीनां लोकाकाशम् । विधानानि भेदास्ते च ‘धम्मत्थिकाए' इत्यादि, ‘धम्मत्थिकायदेसे धम्मत्थिकायपएसे' इत्यादि ।
मानानि प्रमाणानि । यथा धर्माधर्मी लोकाकाशप्रमाणौ, आकाशं लोकालोकव्यापि, लोकाकाशम् एको जीवश्च सममात्रा, अणुरेकप्रदेशस्थायी, प्रदेशो निरंशो भाग, कालो नृक्षेत्रमानः 'उप्पायठिई'त्यादिव्याख्या ये च द्रव्याणामुत्पादस्थितिभङ्गाश्च पर्यायास्तान् चिन्तयेत् । कथं सर्ववस्तु उत्पादव्ययध्रौव्यात्मकम्? यथा स्वर्णं घटत्वेन भग्नं मौलित्वेनोत्पन्नं स्वर्णत्वेन स्थिरमेव । गोरसं पयस्त्वेन नष्टं दधित्वेनोत्पन्नं गोरसत्वेन स्थिरम्। एवं धर्मास्तिकायादयोऽपि विवक्षितसमयसम्बन्धापेक्षयोत्पन्नाः, अतीतसमयापेक्षया विनष्टाः, द्रव्यत्वेन तु स्थिराः । आदितो गुरुलघ्वादिपर्यायान् चिन्तयेत् ।।५४ ।।
दीपिका - जिनदेशितानि जिनोक्तानि, षण्णां द्रव्याणां लक्षणसंस्थानासनविधानमानादीनि, चिन्तयेदिति षष्ठगाथोक्तेन सह सम्बन्धः। तत्र द्रव्याणि धर्मास्तिकायादीनि । धर्मास्तिकायस्य लक्षणं गतिः, कोऽर्थः ? जीवानां पुद्गलानां चाऽसौ गत्युपग्रहकारी मत्स्यानां जलवत् १। अधर्मास्तिकायस्य लक्षणं स्थितिः, जीवानां पुद्गलानां चासौ स्थित्युपग्रहकारी, मत्स्यानां स्थलवत् २। आकाशास्तिकायस्य लक्षणमवगाहः, सर्वद्रव्याणां स्थानत्वादपां घटवत् ३ । पुद्गलास्तिकायस्य लक्षणं मूर्तवर्णगन्धरसस्पर्शशब्दवत्त्वं पूरणगलनात्मकं च ४। कालस्य लक्षणमतिक्रमणवत्त्वम् ५। एतान्यजीवाः। जीवास्तिकायलक्षणं चैतन्यम् ६। संस्थानम् आकारः, स लोकाकाशस्य तत्रवर्तिनां धर्माधर्मास्तिकायनैश्चयिककालानां केवलिसमुद्धातगतस्य लोकपूर्तिसमये जीवस्य कटिदत्तकरवैशाखसंस्थानस्थितपुरुषतुल्यः। वैशाखसंस्थानं विस्तारितपादाभ्यां स्यात् । समयावलिकादिकस्य व्यावहारिककालस्य संस्थानं नृक्षेत्रतुल्यं सूर्यचारप्रभवत्वात्, सूर्यचारश्च नृक्षेत्र एव, अन्यत्र पल्योपमादिव्यवहारः, एतदपेक्षया ज्ञेयः। पुद्गलानां संस्थानं वृत्त-त्र्यस्रादि । देहस्थितजीवानां समचतुरस्रादि। आसनमाधारः, तञ्च धर्मास्तिकायादीनां लोकाकाशम् । विधानानि भेदास्ते च 'धम्मत्थिकाए' इत्यादि, 'धम्मत्थिकायदेसे धम्मत्थिकायपएसे' इत्यादि। मानानि प्रमाणानि, यथा धर्माधर्माकाशलोकास्तिकाया एको जीवश्च सममात्राः, अणुरेकप्रदेशस्थायी प्रदेशो निरंशो भागः। कालो नृक्षेत्रमानः। 'उप्पायठिई'त्यादि व्याख्या - ये च द्रव्याणां उत्पादस्थितिभङ्गादिपर्यायास्तान् चिन्तयेत्, कथम्? सर्वं वस्तु उत्पादव्ययध्रौव्यात्मकम्, यथा स्वर्ण घटत्वेन भग्नं मौलित्वेनोत्पन्नं सुवर्णत्वेन स्थिरमेव। गोरसं पयस्त्वेन नष्टं दधित्वेनोत्पन्नं गोरसत्वेन स्थिरम् । एवं धर्मास्तिकायादयोऽपि विवक्षितसमयसम्बन्धापेक्षयोत्पन्नाः, अतीतसमयापेक्षया विनष्टाः, द्रव्यत्वेन तु स्थिराः । आदितोऽगुरुलघ्वादिपर्यायान् चिन्तयेत् ।।५२।।
अवचूर्णिः - चतुर्थमाह - जिनदेशितानि लक्षणसंस्थानासनविधानमानानि, विचिन्तयेदिति वक्ष्यति
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org