SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ५२ ध्यानशतकम् स्थितिकाल:, रसो मनःपरिणामः तीव्रादिः, प्रदेशः कर्मणां पुद्गलाः तेषामनुभावेन विचारेण भिन्नं भेदं प्राप्तम् । तथा शुभाशुभविभक्तः, अपरं योगानुभावजनितं योगानां मनोनाक्कायव्यापाराणाम् अनुभावेन संयोगेन उत्पादितम् ।।५३।। दीपिका - प्रकृतयः कर्मणां भेदा ज्ञानावरणाद्याः, स्थितिर्जघन्यादिभेदाः। प्रदेशो जीवप्रदेशमिलितकर्मपुद्गलस्कन्धः, अनुभवो रसः, तैभिन्नं भेदापन्नम्, एतञ्चतु पि शुभाशुभाभ्यां विभक्तम् । 'जोगा' योगा मनोवाक्कायाः, अनुभावा जीवगुणा मिथ्यात्वाविरतिकषायास्तैर्जनितम्, कर्मविपाकं कर्मोदयः, विपाकविचयनामा भेदः ३ ।।५१।। अवचूर्णिः - तृतीयमाह - प्रकृत्यादिभेदभिन्नं, शुभाशुभविभक्तं, योगानुभावजनितं, योगा मनोवचनकायाः, अनुभावो जीवगुण एव, स च मिथ्यात्वाविरतिप्रमादकषायास्तै नितम् ।।५१।। अवचूरिः - तृतीयमाह - पय० ।। प्रकृति-स्थिति-प्रदेशाऽनुभावभिन्नं शुभाशुभविभक्तम् प्रकृतिशब्देनाष्टौ कर्मप्रकृतयोऽभिधीयन्ते, स्थितिः तासामेवावस्थानं जघन्यादिभेदभिन्नम्, प्रदेशशब्देन जीवप्रदेश-पुद्गलादीनां सम्बन्धोऽभिधीयन्ते, अनुभावशब्देन तु विपाकः । एते च प्रकृत्यादयः शुभाशुभभावाः स्युः । योगा मन-वचनकायाः तैरनुभावो जीवगुण एव स च मिथ्यादर्शनाविरति-प्रमाद-कषायाः, तेन च जनितमुत्पादितं कर्मविपाकमुदयं च ।।५१।। टीका - तृतीयमाह - प्रकृतिस्थितिप्रदेशानुभावभिन्नं शुभाशुभविभक्तं शुभाशुभत्वेन स्थापितम्। प्रकृतयो ज्ञानावरणाद्याः, स्थितिस्तासामवस्थानकालः, प्रदेशाः कर्मपुद्गलाः, अनुभावो विपाकः। योगानुभावजनितं मनोयोगादिप्रभावप्रभवं कर्मविपाकं विचिन्तयेदित्यक्षरार्थः ।।५१।। । जिणदेसियाइ लक्खणसंठाणासणविहाणमाणाइं । उप्पायट्ठिइभंगा-इपज्जवा जे य दव्वाणं ।।२।। अर्थलेशः - जिणदेसियाइ गाथा ।। अथ संस्थानविचयमाह - धर्मध्यानध्याता जिनदेशितानि षड्द्रव्याणां लक्षणानि संस्थानासनविधानानि[विधानमानानि] चिन्तयेदिति षष्ठगाथोक्तेन सम्बन्धः । तत्र द्रव्याणि धर्मास्तिकायादीनि, धर्मास्तिकायस्य लक्षणं गतिः। कोऽर्थः? जीवानां पुद्गलानां चासौ गत्युपग्रहकारी मत्स्यानां जलवत् ।१। अधर्मास्तिकायस्य लक्षणं स्थितिः, जीवानां पुद्गलानां चासौ स्थित्युपग्रहकारी मत्स्यानां स्थलवत् ।।२।। आकाशास्तिकायस्य लक्षणम् अवगाहः, सर्वद्रव्याणां स्थानत्वादपां घटवत् ।।३।। पुद्गलास्तिकायस्य लक्षणं मूर्तिवर्णगन्धरसस्पर्शशब्दवत्त्वं पूरणगलनात्मकत्वं च ।।४।। कालस्य लक्षणमतिक्रमणवत्त्वम् ।।५।। एतान्यऽजीवाः। जीवास्तिकायलक्षणं चेतनत्वम् ।।६।। संस्थानम् आकारः। स लोकाकाशस्य, तत्र वर्तिनां धर्माधर्मास्तिकायनैश्चयिककालानाम्, केवलिसमुद्धातगतस्य लोकपूर्तिसमये जीवस्य, कटिदत्तकरवैशाखसंस्थानस्थितपुरुषतुल्यः। वैशाखसंस्थानं Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002560
Book TitleDhyanashatakam Part 2
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages350
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy