________________
५०
ध्यानशतकम् अनुपकृतपरानुग्रहपरायणा स्युः । उपकारं विनापि मेघसूर्यादिवत् परेषां जीवानाम् अनुग्रहं - प्रसादं कुर्वन्ति। उभयकालं व्याख्याकरणेन सर्वजीवहितकारी जीवाजीवादितत्वप्ररूपणया प्रसादकारका इत्यर्थः तथा जितरागद्वेषमोहाः, तेन कारणेन अन्यथावादिनो न भवन्ति ।।५१।।
दीपिका - यज्जिनाः, अनुपकृते परैरुपकारेऽकृतेऽपि, परानुग्रहः कृपा तत्र परायणाः,जगत्प्रवराः, तेन नान्यथावादिनः, राग: प्रीतिः, द्वेषोऽप्रीतिः, मोहोऽज्ञानम्, आज्ञाविचयनामा भेदः ।।४९।।
अवचूणिः - रागोऽभिष्वङ्गो द्वेषोऽप्रीतिर्मोहोऽज्ञानम् ।।४९।।
अवचूरिः - किमित्येतदेवमित्यत आह - अणु० ।। अनुपकृते परैरवर्तिते सति परानुग्रहपरायणा धर्मोपदेशादिना यद् यस्माज्जिना जगत्प्रवरा जिता रागद्वेषमोहा नान्यथावादिनस्तेन कारणात् ।।४९ ।। टीका - किमित्येतदेवमित्याह- स्पष्टा ।।४९।।
रागद्दोसकसायासवादिकिरियासु वट्टमाणाणं ।
इहपरलोयावाओ, झाइजा वजपरिवजी ।।५।। अर्थलेशः - आज्ञाविचयो व्याख्यातः, अथापायविचयमाह - रागद्दोस गाथा ।। धर्मध्यानध्याता जीवानाम् इह-परलोकापायान् इहलोके कुटुम्बचिन्तादिकष्टानि परलोके नरकादिकष्टानि ध्यायेत् । किं विशिष्टानां जीवानाम्? रागद्वेषकषायाश्रवादिक्रियासु वर्तमानानाम् । किं विशिष्टो धर्मध्यानध्याता ? अवद्यपरिवर्जकः पापपरिहारकर्ता ।।५२।।।
दीपिका - आश्रवा मिथ्यात्वाविरतियोगाः । आदिशब्दो रागादिनामनेकभेदवाची, क्रिया: कायिकाद्याः, रागादिषु क्रियासु वर्त्तमानानामिहपरलोकयोरपायान् कष्टानि ध्यायेत् । यथा राग इहभवेऽपि दुःखाय, दृष्टिरागादिभेदस्तु दीर्घभवाय, एवं द्वेषादयोऽपि, अवद्यपरिवर्जी, अपायविचयनामा भेद: २ ।।५० ।।
अवचूर्णिः- द्वितीयमाह- रागद्वेषकषायाश्रवादिक्रियासु वर्तमानानामिहपरलोकापायान् ध्यायेद्वर्त्यपरिवर्जी, वय॑मकृत्यं तत्परिवर्जी - अप्रमत्तः, यथा'रागः सम्पद्यमानोऽपि, दुःखदो दुष्टगोचरः। महाव्याध्यभिभूतस्य, अपथ्यान्नाभिलाषवत् ।। १ ।। द्वेषः सम्पद्यमानोऽपि, तापयत्येव देहिनम् । कोटरस्थो ज्वलन्नाशु, दावानल इव द्रुमम् ।।२।।' तथा'दृष्ट्यादिभेदभिन्नस्य, रागस्यामुष्मिकं फलम् । दीर्घः संसार एवोक्तः, सर्वज्ञैः सर्वदर्शिभिः ।।३।। दोसानलसंतत्तो, इहलोए चेव दुक्खिओ जीवो । परलोगंमि अ पावो, पावइ निरयानलं तत्तो ।।४।। मिच्छत्तमोहिअमई, जीवो इहलोग एव दुक्खाई । निरओवमाइं पावो, पावइ पसमाइगुणहीणो ।।५।। अज्ञानं हि खलु कष्टम्, क्रोधादिभ्योऽपि सर्वपापेभ्यः। अर्थं हितमहितं वा, न वेत्ति येनावृत्तो लोकः ।।६।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org