SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः तत्थ य मइदोब्बलेणं, तव्विहायरियविरहओ वावि । यगहणत्तणेण य, णाणावरणोदएणं च ।।४७।। हेऊदाहरणासंभवे य, सइ सुट्टु जं न बुज्झेज्जा | सव्वण्णुमयमवितहं, तहावि तं चिंतए मइमं ।।४८ ।। अर्थलेश: तत्थ य गाथा ।। हेऊ गाथा ।। एतैः प्रकारैः सद्भिः साधुः श्राद्धा वा यद्वस्तु सुप्रकारेण न बुध्यते मतिमान् तथापि तद्वस्तु सर्वज्ञमतं सर्वज्ञभाषितम् अवितथं सत्यं मन्यते । तैः कैः प्रकारैः ? तत्र वस्तुनि मतिदौर्बल्येन तुच्छबुद्धिः तया, अपरं तद्विधाचार्याभावतश्चापि तथा ज्ञेयगहनत्वेन ज्ञेयानां निगोदादिपदार्थानां गहनत्वेन च अन्यज्ज्ञानावरणोदयेन, अपरं हेतुउदाहरणयोरसम्भवे सति ।।४९-५० ।। - दीपिका - तत्राज्ञायां मतिदौर्बल्येन तद्विधः सम्यग् व्याख्याता आचार्यस्तस्य विरहतोऽभावाज्जेयार्थस्य गहनत्वेन ज्ञानावरणोदयेन च हेतुर्वयादेर्धूमवत्त्वादिः, उदाहरणं चरितकल्पितभेदम्, तयोरसम्भवे सति, सुष्ठु यद्वस्तु न बुध्यते तथापि तद्वस्तु सर्वज्ञमतमित्यवितथं चिन्तयेन् मतिमान् ।।४७-४८ ।। ४९ अवचूर्णिः - तत्र तस्यामाज्ञायां मतिदौर्बल्येन बुद्धेः सम्यगर्थानवधारणेन, ज्ञेयं धर्म्मास्तिकायादि, तद्गहनत्वेन च ।।४७।। कञ्चन पदार्थं प्रति हेतूदाहरणासम्भवः तस्मिन् सति, तत्र हेतुः कारको व्यञ्जकश्च, उदाहरणं चरितकल्पितभेदम्, तथापि तदबोधकारणे सत्यनवगच्छन्नपि तत् मतं चिन्तयेन्मतिमान् ||४८ ।। अवचूरिः - तत्थ० ।। १ - तत्र च मतिदौर्बल्येन बुद्धेः सम्यगर्थानवधारणेनेत्यर्थः, २-तद्विधाचार्यविरहतोऽविपरीततत्त्वप्रतिपादनकुशलः आचार्यस्तदभावादित्यर्थः, ३- ज्ञेयगहनत्वेन च ज्ञेयं धर्मास्तिकायादि, ४ - ज्ञानावरणोदयेन च ज्ञानावरणोदयादेवानन्तरोक्तं मतिदौर्बल्यादित्रयं स्यात् ततश्च तदभिधाने न युक्तममीषामभिधानम् ? न, तत्कार्यस्यैव सङ्क्षेप-विस्तरत उपाधिभेदेनोक्तत्वात् ।।४७।। अर्थलेशः हे० ।। ५-६ - हेतुः कारको व्यञ्जकश्च उदाहरणं चरितकल्पितभेदम्, हेतुश्चोदाहरणं च हेतूदाहरणे तयोरसम्भवः कञ्चन पदार्थं प्रति हेतूदाहरणासम्भवात् तस्मिन् सति यद् वस्तुजातं न सुष्ठु बुद्ध्येत नातीवावगच्छेत् सर्वज्ञमतमवितथं तथापि तदबोधकारणे सत्यनवगच्छन्नपि तन्मतं वस्तु वा पर्यालोचयेन्मतिमान् ।।४८ ।। Jain Education International 2010_02 टीका स्पष्टे । नवरं तत्र तस्यामाज्ञायां श्रुतरूपायाम् ।। ४७-४८ ।। अणुवकयपराणुग्गहपरायणा जं जिणा जगप्पवरा । जियरागदोसमोहा य, णण्णहावादिणो तेणं ।।४९ ।। अणु गाथा ।। सुधीरेवं चिन्तयेत् । यद् यस्मात् कारणात् जगत्प्रवरा वीतरागा For Private & Personal Use Only www.jainelibrary.org
SR No.002560
Book TitleDhyanashatakam Part 2
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages350
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy