________________
४८
ध्यानशतकम् भूतानां वा सत्त्वानां चिलातीपुत्रादीनामिव भावना वासना यस्याः सा तथा ताम्, अनर्घाम् अविद्यमानमूल्याम् अथवा ऋणध्नाम् ऋणं कर्म तद्ध्नाम्, अमितामपरिमितां यथा - "सव्वनईणं जा होज्ज वालुया सव्वउदहीण जं उदयं । इतो वि अणंतगुणो अत्थो इक्कस्स सुत्तस्स ।।" अमृतां वा अमृतोपमा मृष्टां पथ्यां वा यथा"जिणवयणमोदगस्स उ रत्तिं य दिवा य खज्जमाणस्स । तितिं बुहो न वच्चइ हेउसहस्सोवगूढस्स ।। नरनिरयतिरियसुरगण संसारियसव्वदुक्ख-रोगाणं । जिणवयणमेगमोसहमपवग्गसुहक्खयं फलदं ।।" अमृतां सजीवां वा उपपत्तिक्षमत्वेन अजितां शेषप्रवचनाज्ञाभिरपराजिताम्, यथा - “जीवाइवत्थुचिंतणकोसल्लगुणेणऽणण्णसरिसेणं । सेसवयणेहिं अजियं जिणिंदवयणं महाविसयं ।।"
महान् प्रधानोऽर्थो यस्याः तथा तां पूर्वापराविरोधित्वादनुयोगद्वारात्मकत्वान्नयगर्भत्वाच्च प्रधानां यद्वा महा पूजा तत्र तिष्ठतीति महास्था, यथा - "सव्वसुरासुरमाणुस-जोइसवंतरसुपूइयं णाणं । जेणेह गणहराणं, छुहंति चुण्णे सुरिंदावि ।।"
महान् प्रधानः प्रभूतो वाऽनुभावः सामर्थ्यादिलक्षणो यस्याः सा तथा ताम्, प्राधान्यं चास्याश्चतुर्दशपूर्वविदः सर्वलब्धिसम्पन्नत्वात्, प्रभूतत्वं च “पभू णं चोद्दसपुव्वी घडाओ घडसहस्सं करित्तए" इत्यादि, परत्र, यथा -
"उववाओ लंतगंमि, चोद्दस पुव्वीस्स होइ उ जहण्णो । उक्कोसो सव्वटे, सिद्धिगमो वा अकम्मस्स ।।" . महाविषयां सकलद्रव्यादिविषयत्वात् ।।४५।।।
झाइ० ।। ध्यायेदिति सर्वपदक्रिया । निरवद्यामनृतादिद्वात्रिंशद्दोषावद्यरहितत्वात् जिनानामाज्ञां वचनलक्षणामनिपुणजनदुर्जेयाम्, नयाश्च भङ्गाश्च प्रमाणानि च गमाश्च तैर्गहना गह्वरा ताम्, नया नैगमादयो, भङ्गाः भङ्गकाः, प्रमाणानि द्रव्यादीनि यथानुयोगद्वारेषु, गमाश्चतुर्विंशतिदएकादयः, कारणवशतो वा किञ्चित्सदृशाः सूत्रमार्गा यथा षड्जीवनिकायादौ ।।४६।।
टीका - अथ ध्यातव्यम्, तञ्चतुर्धा आज्ञापायविपाकसंस्थानविचयभेदात् । आज्ञादीनां विविधो विशिष्टो वा चयः उपचयः। तत्राद्यभेदमाह
__ आज्ञां द्वादशाङ्गीरूपां जिनानां जगत्प्रदीपानां ध्यायेत् । कथम्भूताम्? सुनिपुणां सूक्ष्मार्थप्रकाशकत्वात्। अनाद्यनिधनां द्वादशाङ्गीं न कदाचिन्नासीदित्यादि । भूतहितां प्राणिदयाप्रधानाम्। भूतभावनां भूतानां चिलातीपुत्रादीनामिव भावना वासना यस्या द्वादशाङ्गीवचनमात्रश्रुतेः सकाशात् सा तथा ताम् । अनाममूल्याम्, असङ्कल्पिताऽचिन्तितफलप्रदत्वात् । अमिताम् अपरिमितार्थाम्, अमृतां वा अमृतोपमाम्, अमरत्वदायकत्वात्। अजितां कुमतसिद्धान्तैः । महा● प्रधानार्थाम्, पूर्वापराविरोधित्वात् । महानुभावां महाप्रभावाम् - 'पहू णं चउदसपुव्वी घडाउ घडसहस्सं करित्तए' इत्यादि। महाविषयां सर्वद्रव्यविषयां - ‘दव्वउ णं सुयनाणी उवउत्तो सव्वदव्वाणि जाणइ' इत्यादि । निरवद्यां नि:पापाम् । अनिपुणजनदुर्जेयाम् । नयभङ्गप्रमाणगमगहनाम्, नया नैगमाद्याः, भङ्गा भङ्गकाः, प्रमाणानि प्रत्यक्षादीनि गमाः सदृशपाठा: तैर्गहनां कष्टावबोधाम्। ।।४५-४६।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org