________________
४७
परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः अमृतां वाऽमृतोपमां मृष्टां पथ्यां वा, यथा
'जिणवयणमोअगस्स उ रत्तिं व दिआ य खज्जमाणस्स । तित्तिं बुहो न वञ्चइ सहस्सोवगूढस्स ।।१।।' तथानरनिरयतिरिअसुरगणसंसारिअसव्वदुक्खरोगाणं ।
जिणवयणमेगमोसहमपवग्गदुहक्खयफलयं ।।२।।' अमृतां सजीवां वा, उपपत्तिक्षमत्वेन, अजितां शेषप्रवचनाज्ञाभिरपराजिताम्, यथा
'जीवाइवत्थुचिंतणकोसल्लगुणेणऽणण्णसरिसेणं।
सेसवयणेहिं अजिअं जिणिंदवयणं महाविसयं ।।१।।' महा● पूर्वापराविरोधित्वानुयोगद्वारात्मकत्वान्नयगर्भत्वाञ्च, यदा महः पूजा तत्र तिष्ठतीति महस्था [ताम्] यथा -
'सव्वसुरासुरमाणुसजोइसवंतरसुपूइअं णाणं ।
जेणेह गणहराणं छुहति चुन्ने सुरिंदावि ।।१।।' महान् प्रधानः प्रभूतो वाऽनुभावः सामर्थ्यादिलक्षणो यस्याः सा तथा ताम्, प्रधानत्वं चतुर्दशपूर्वविदो लब्धिसम्पन्नत्वात्, प्रभूतत्वं च [प्रभूतकार्यकरणाद्, उक्तं च-] ‘पहू णं चउद्दसपुव्वी घडाओ घडसहस्सं करित्तए' इत्यादि, परत्र यथा
'उववाओ लंतगंमि चउदसपुव्वीस्स होइ उ जहन्नो ।
उक्कोसो सवढे सिद्धिगमो वा अकम्मस्स ।।१।।' महाविषयां सर्वद्रव्य[व्यादि]विषयत्वात् ।।४५।।
आज्ञां वचनलक्षणाम्, नया नैगमादयस्तथा भङ्गा भङ्गकाः, प्रमाणानि द्रव्यादीनि, गमाश्चतुर्विंशतिदण्डकादयः किञ्चिद्विसदृशाः सूत्रमार्गा वा, तैर्गहना ताम् ।।४६।।
अवचूरिः - अथ ध्यातव्यमाह, तञ्चतुर्भेदम् आज्ञाऽपाय-विपाक-संस्थानविचयभेदात् । तदेवाहआणा० गाथेयमन्यकर्तृकी । तत्राद्यमाह- सुनि० ।। सुनिपुणाम् आज्ञामिति योगः नैपुण्यं च सूक्ष्मद्रव्याधुपदर्शकत्वात्तथा मत्यादिप्रतिपादकत्वाच्च । उक्तं च - "सुयनाथमि नेउण्णं केवले तयणंतरं । अप्पणो सेसगाणं च जम्हा तं परिभावणं ।।" अनाद्यनिधनाम् द्रव्यार्थादेशात्, भूतहितां भूताः प्राणिनस्तेषां हितां पथ्याम् - "सव्वे जीवा न हंतव्वा" इत्यादि, भूतभावनां भूतं सत्यं भाव्यतेऽनयेति भूतभावना अनेकान्तपरिच्छेदात्मिका,
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org