________________
४६
ध्यानशतकम्
बोधव्यानि भवन्ति । एतानि कानि ? १-आज्ञाविचयो जिनाज्ञाया अभ्यासः, २-अपायविचयः सांसारिक जीवानां दुःखचिन्तनम्, ३-विपाकविचयः कर्मस्वरूपचिन्तनम्, ४-संस्थानविचयः लोकस्वरूपचिन्तनम् ।
अर्थतेषां चतुर्णां पदानां व्याख्या ।।४६।।
सुणिऊण गाथा।। झाइजा गाथा ।। सुधीरेवंविधां जिनानामाज्ञां ध्यायेत् । किं विशिष्टाम् आज्ञाम्? सुनिपुणाम् अतिदक्षां जीवादितत्त्वप्ररूपकत्वात्, [त]था अनादिनिधनां महाविदेहेषु सदैव विद्यमानत्वात्, तथा भूतहितां भूतेभ्यो जीवेभ्यो हितकारिणी, अपरं भूतभावनां भूतानां-जीवानां भावनाविचारणा यत्र ताम्, तथा अन| निगोदादिविचारज्ञापकत्वान्मूल्यरहिताम् अमूल्यामित्यऽर्थः, अपरं महानुभावां मुक्त्यादिसौख्यदायकत्वात् महत्प्रभावाम्, तथा महाविषयाम् अनन्तजीवप्रकाशकत्वात् महान् विषयो गोचरो यस्यास्तां महाविषयाम्, अपरं निरवद्यां नि:पापाम्। किं विशिष्टानां जिनानाम् ? जगत्प्रदीपानाम् । किं विशिष्टाम् आज्ञाम् ? अनिपुणजनदुर्जेयां मूर्खजनैः ज्ञातुमशक्याम्, तथा नयभङ्गप्रमाणगमगहनां नया नैगमादयः सप्त तेषां भङ्गाः सप्तशतानि, प्रमाणे द्वे प्रत्यक्षपरोक्षरूपे, गमा सदृक्पाठाः एतैः प्रकारैर्गहनां ज्ञानं विना ज्ञातुमशक्याम् ।।४७-४८।।
दीपिका - अथ ध्यातव्यमाज्ञाविचय१अपायविचयरविपाकविचय३संस्थानविचय४भेदाच्चतुर्द्धा, तत्र विचयश्चिन्तनेन परिचय: क्रमेणाह - सुनिपुणां सूक्ष्मद्रव्यादिदर्शकत्वात्, अनादिनिधनाम् अर्थतः शाश्वताम्, भूतहितां भूतं - सत्यं भाव्यते अनया सा भूतभावना स्याद्वादवादिनी ताम् अनाम् अमूल्याम्, अमिताम् एकैकसूत्रस्यानन्तार्थत्वात्, अजितां कुतीर्थिकैः, महान् प्रधानोऽर्थो यस्याः पूर्वापराविरोधित्वादनुयोगद्वारात्मकत्वात्रयमयत्वाञ्च, महान् प्रभूतोऽनुभावो यस्याश्चतुर्दशपूर्विणां सर्वलब्धिमत्वात् ताम्, महाविषयां सर्वद्रव्यविषयत्वात् ।।४५।।
निरवद्यां द्वात्रिंशदलीकादिदोषाभावात्, ईदृशां जगत्प्रदीपानां जिनानामाज्ञाप्यन्ते सत्कर्माण्यनया जीवा इत्याज्ञा तामाज्ञां वाचम्। अनिपुणजनदुर्जेयाम्, नया नैगमाद्याः, भङ्गा एकविधाद्याः, प्रमाणानि प्रत्यक्षादीनि, गमाः सदृक्पाठाः तैर्गहनाम् ।।४६।।
अवचूर्णिः - ध्यातव्यं चतुर्धा- आज्ञाऽपायविपाकसंस्थानविचयभेदात्, तदेवाह- 'आणा' इयं गाथान्यकर्तृकी । तत्राद्यमाह- सुनैपुण्यं च सूक्ष्मद्रव्याधुपदर्शकत्वात्तथा मत्यादिप्रतिपादकत्वाञ्च, अनाद्यनिधनां द्रव्यार्थादेशात्, भूतहितां भूताः प्राणिनस्तेषां हितां पथ्यां 'सव्वे जीवा न हंतव्वा' इत्यादि- भूतभावनां भूतं -सत्यं भाव्यतेऽनयेति भूतभावना - अनेकान्तपरिच्छेदात्मिका, भूतानां वा सत्त्वानां चिलातीपुत्रादीनामिव भावना - वासना यस्याः सा तथा ताम्, अनामविद्यमानमूल्याम्, अथवा ऋणघ्नाम्, अमितामपरिमितार्थाम्,
यथा
'सव्वनईणं जा हुज वालुया सव्वुदहीण जं उदयं । इत्तोवि अणंतगुणो अत्थो इक्कस्स सुत्तस्स ।। १ ।।'
Jain Education International 2010 02
For Private & Personal Use Only
www.jainelibrary.org