________________
४५
परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः
अर्थलेशः - आलम्बनद्वारं व्याख्यातम्, अथ क्रमद्वारमाह - झाण गाथा ।। केवलिनः भवकाले मुक्तिगमनकाले मनोयोगनिग्रहादिक ध्यानप्रतिपत्तिक्रमो भवति । केवली मुक्तौ गच्छन् पूर्वं मनोयोगं रुणद्धि, ततो वचनयोगं तत: काययोगम् एष क्रमः। शेषस्य शुक्लध्यानाद्यभेदद्वयस्य धर्मध्यानस्य च यथासमाधि ध्यानक्रमो ज्ञेयः। कोऽपि पूर्वं मनो रुणद्धि ततो वचनं ततः कायम्, कोऽपि पूर्वं कायं रुणद्धि ततो वचनमनसी, कोऽपि वचनं रुद्ध्वा कायमनसी । एवं यथासमाधि ध्यानक्रमो ज्ञेयः। ।।४५ ।।
दीपिका - अथ क्रमद्वारम्- केवलिनो भवस्य काले शेषेऽन्तर्मुहूर्ते शैलेशीक्षणे ध्यानस्य प्रस्तावाच्छुक्लध्यानान्त्यभेदद्वयस्य प्रतिपत्तेः क्रमो मनोयोगनिग्रहादिः, आदितो वाक्कायनिग्रहः। शेषस्य धर्मध्यानस्य शुक्लाद्यभेदयोश्च प्रतिपत्तिोगानाश्रित्य यथासमाधिना प्रतिपत्तिक्रमः, परं प्रायः प्राक्कायवाग्योगरोधस्ततो मनोरोधः ।।४४।। द्वा० ६
अवचूर्णिः - क्रमं धर्मस्य लाघवार्थं शुक्लस्य चाह- ध्यानस्य प्रतिपत्तिक्रमः परिपाटी, पूर्व मनोनिग्रहस्ततो वाग्निग्रहस्तत: काययोगनिग्रहः, अयं क्रमो भवकाले शैलेश्यवस्थान्तर्गतकेवलिन:, शुक्ल एवायं क्रमः, शेषस्य धर्मध्यानप्रतिपत्तुर्यथासमाधिना यथैव स्वास्थ्यं स्यात्तथैव प्रतिपत्तिः ।।४४।।।
अवचूरिः - क्रमद्वारे लाघवार्थं धर्मस्य शुक्लस्य च [तमाह - झाण० ।। ध्यानस्य प्रतिपत्तिक्रमः प्रतिपत्तिपरिपाट्यभिधीयते । स भवति मनोयोगनिग्रहादिः, प्रथमं मनोयोगनिग्रहः, ततो] वाग्योगनिग्रहः, ततः काययोगनिग्रहः । अयं क्रमः केवलिनो भवकाले अत्र भवकालशब्देन शैलेश्यवस्थान्तर्गतः अन्तर्मुहूर्तमान एव गृह्यते कालः । अयं शुक्लध्यानक्रमः शेषस्य धर्मध्यानप्रतिपत्तुर्योगकालावाश्रित्य यथैव स्वास्थ्यं स्यात् तथैव प्रतिपत्तिः ।।४४ ।। द्वार-६
___टीका - अथ लाघवार्थं धर्मस्य शुक्लस्य च क्रममाह- भवकाले भवसत्के काले - मृत्युसमये मोक्षगमनप्रत्यासन्ने शैलेश्यवस्थारूपे केवलिनो ध्यानक्रमः। शेषस्य धर्मध्यानप्रतिपत्तुर्यथासमाधिना यथास्वास्थ्यं स्यात्तथा क्रमः ।। ४४ ।।
सुनिउणमणाइणिहणं, भूयहियं भूयभावणमहग्यं । अमियमजियं महत्थं, महाणुभावं महाविसयं ।। ४५।। झाइज्जा निरवजं, जिणाणआणं जगप्पईवाणं ।
अणिउणजणदुण्णेयं, नयभंगपमाणगमगहणं ।।४६।। अर्थलेशः - आणविजयमवाए, विवागसंठाण, उ य बोधव्वा ।
एए चत्तारि पया, जायव्वा धम्मझाणस्स ।।४६।। क्रमद्वारं व्याख्यातम्, अथ ध्यातव्यद्वारमाह - धर्मध्यानस्य एतानि चत्वारि पदानि ध्यातव्यानि
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org