________________
४४
ध्यानशतकम् दीपिका - अथालम्बनद्वारम् - १-धर्मध्यानालम्बनानि - सूत्रार्थदानं वाचना, २-शङ्किते सूत्रादौ प्रश्नः ३-गुणनं परिवर्तना ४-मनसा सूत्रार्थचिन्तनम् अनुचिन्ता, अमूनि श्रुतधर्माश्रितानि । अथ चरणधर्माश्रितान्याह - ‘सामा' आदितः प्रतिलेखनादीनि, सद्धर्मश्चारित्रधर्मस्तस्यावश्यकानि ।।४२ ।।
अवचूर्णिः - आलम्बनद्वारमाह - वाचना विनेयाय सूत्रार्थदानम्, शङ्किते सूत्रादौ गुरुप्रच्छनं प्रश्नः, परावर्त्तनं पूर्वाधीतस्यैव सूत्रादेरभ्यासकरणम्, अनुप्रेक्षा मनसैवाविस्मरणादिनिमित्तं सूत्रानुस्मरणम्, एतानि श्रुतधर्मानुगतानि वर्त्तन्ते, तथा सामायिकादीनि सद्धर्मावश्यकानि च, अमूनि चरणधर्मानु-गतानि, सामायिक प्रतीतमादिशब्दान्मुखवस्त्रिकाप्रत्युपेक्षणादिसामाचारीपरिग्रहः, सन्ति च तानि चारित्रधर्मावश्यकादीनि चेति विग्रहः, आवश्यकानि नियमतः करणीयानि ।।४२।।
अवचूरिः - आलम्बनद्वारमाह - आलं० ।। धर्मध्यानारोहणार्थमालम्ब्यन्त इत्यालम्बनानि, वाचना विनेयाय सूत्रर्थदानम्, शङ्किते सूत्रादौ गुरुप्रच्छनं प्रश्नः, परावर्त्तनं पूर्वाधीतस्यैव सूत्रादेरभ्यासकरणम्, अनुप्रेक्षा मनसैवाविस्मरणनिमित्तं सूत्रानुस्मरणम् । एतानि श्रुतधर्मानुगतानि वर्तन्ते तथा सामायिकादीनि सद्धर्मावश्यकानि च इति विग्रहः । आवश्यकानि नियमतः करणीयानि ।।४।।
टीका - धर्मध्यानावलम्बनान्याह- धर्मध्यानारोहणार्थमालम्ब्यते इत्यालम्बनानि, सद्धर्मश्चारित्रधर्मस्तस्यावश्यकान्यवश्यकृत्यानि। शेषं स्पष्टम् ।।४२।।
विसमंमि समारोहइ, दढदव्वालंबणो जहा पुरिसो ।
सुत्ताइकयालंबो, तह झाणवरं समारुहइ ।।४३।। अर्थलेशः - विसमंमि गाथा ।। यथा पुरुषो विषममपि प्रासादादिकं दृढद्रव्यालम्बनः सन् दृढ़ निश्चलं द्रव्यं काष्ठरज्ज्वादिरालम्बनं यस्य स एवंविधः समारोहति । तथा साधुरपि सूत्रवाचनादिकृतालम्बनः सन् ध्यानवरं धर्मध्यानं समारोहति ।।४४ ।।
दीपिका - विषमे दुर्गादौ, समारोहति सम्यगपरिक्लेशेनोर्ध्वं याति, कः? दृढं बलवत् द्रव्यं रज्ज्वादि, सूत्रादिकृतालम्बनो ध्यानवरं धर्म्यम्, ।। ४३ ।। द्वा० ५
अवचूर्णिः - दृढद्रव्यं रज्ज्वादि ।।४३।।
अवचूरिः - विस० ।। विषमे दुःसञ्चरे समारोहति ऊर्ध्वं याति । दृढं बलवद् द्रव्यं रज्ज्वाद्यालम्बनं यस्य स तथाविधः सूत्रादिकृतालम्बनो वाचनादिकृतालम्बनो ध्यानवरं धर्मध्यानमित्यर्थः ।।४३।। द्वार-५ टीका - एषामालम्बनत्वे दृष्टान्तमाह- दृढद्रव्यं रज्ज्वादि ।।४३।।
झाणप्पडिवत्तिकमो, होइ मणोजोगनिग्गहाईओ । भवकाले केवलिणो, सेसाण जहासमाहीए ।। ४४ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org