SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः ४३ अर्थलेशः - सव्वासु गाथा ।। यद् यस्मात् कारणाद् मुनयः सर्वासु देशकालावस्थासु वर्तमाना वरकेवलादिलाभं प्राप्ताः। तत्र देशो ग्रामादिः, कालो घटिकादि, चेष्टा पर्यङ्काद्यासनरूपा ज्ञेया । किं विशिष्टा मुनयः? बहुशो बहून् वारान् ध्यानबलेन शमितपापाः ।।४१।। दीपिका - यत: चेष्टा देहावस्था उच्यन्ते । देशश्च कालश्च चेष्टाश्च देशकालचेष्टास्तासु, सर्वासु देशकालचेष्टासु वर्तमानाः शान्तपापाः सन्तो मुनयो वरकेवलज्ञानमनोज्ञानादिलाभं प्राप्ता बहुशः, केवलज्ञानवर्जमनेकवारान् ।।४०।। अवचूर्णिः - अथ- किं देशकाला[सना]नामनियमः? उच्यते- सर्वासु देशकालचेष्टासु, चेष्टा देहावस्था, वर्तमाना मुनयो यद् यस्मात्कारणात् प्रधानकेवलादिलाभं प्राप्ताः, आदेर्मन:पर्यायादिग्रहः, केवलवर्ज बहुशोऽनेकशः, शमितपापाः सन्त: ।।४०।। __ अवचूरिः - किं देशकालासनानामनियमः ? उच्यते- सव्वा० ।। सर्वासु वर्तमाना मुनयो यद् यस्माद् देशकालचेष्टासु चेष्टा देहावस्था गृह्यते । वरकेवलादिलाभं प्राप्ता शमितपापाः ।।४० ।। __टीका - कथं ध्यानस्य देशादीनामनियम इत्याह - स्पष्टा । नवरं चेष्टा देहावस्था ।।४०।। ___तो देसकालचेट्ठानियमो झाणस्स नत्थि समयंमि । जोगाण समाहाणं, जह होइ तहा पयइयव्वं ।।४१।। अर्थलेशः - तो देस गाथा । ततः कारणात् । समये सिद्धान्ते ध्यानस्य देशकालचेष्टानियमो नास्ति । यथा योगानां समाधानं भवति तथा ध्यानका प्रयतितव्यम् ।।४२।। दीपिका - योगानां मनोवाक्कायानां समाधानं भवति यथा, प्रयतितव्यम् ।।४१ ।। अवचूर्णिः - तस्माद् ।।४१।। अवचूरिः - तो दे० ।। ततो देशकालचेष्टानियमो ध्यानस्य नास्ति समये आगमे किन्तु योगानां समाधानं यथा स्यात् तथा प्रयतितव्यम् ।।४१।। द्वार-४ टीका- [स्पष्टा] ।।४१।। आलंबणाइ वायण-पुच्छण-परियट्टणा-णुचिंताओ । सामाइयाइयाई सद्धम्मावस्सयाई च ।।४२।। अर्थलेशः - आसनविशेषद्वारं व्याख्यातम्, आलम्बनद्वारमाह - आलंबणा गाथा ।। धर्मध्यानस्य तानि आलम्बनानि भवन्ति । एतानि कानि? १-वाचना २-पृच्छना, ३-परिवर्तना, ४-अनुप्रेक्षा, ५-तुशब्दाद्धर्मकथा । एतानि सम्यक्त्वसामायिकश्रुतसामायिकयोरालम्बनानि स्युः, तैहेतुभूतैः तयोर्लभ्यमानत्वात् । सामायिकादीनि सद्धर्मावश्यकानि च । देशविरतिसामायिक-सर्वविरतिसामायिकयोरालम्बनानि स्युः। तैस्तत् प्राप्तेः ।।४३।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002560
Book TitleDhyanashatakam Part 2
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages350
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy