SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ४२ दिवसनिशादिवेलानियमनं निश्चयकरणं न विद्यते न भणितम् ।। ३९ ।। दीपिका - अथ कालद्वारम् - कालोऽपि स एव ध्यानार्हः यत्र ध्याता योगानां समाधानमुत्तमं लभते, न तु दिवसनिशादिवेलाया नियमनं नियन्त्रणं ध्यायिनो भणितम् ।। ३८ ।। द्वा० ३ कालोऽपि स एव ध्यानोचितः ।। ३८ ।। अवचूर्णि अवचूरि कालमाह- कालो० ।। कालोऽपि स एव ध्यानोचित इति गम्यम् । यत्र काले योगसमाधानं मनोयोगादिस्वास्थ्यं प्रधानं लभते, न तु नैव दिवसनिशावेलानियमनं ध्यायिनो भणितम् ।। ३८ ।। गतं द्वारम् ३ । टीका - गतं देशद्वारम्, कालद्वारमाह- स्पष्टा, नवरं वेला मुहूर्तादि ।। ३८ ।। जयि देहावस्था, जिया ण झाणोवरोहिणी होइ । झाइज्जा तदवत्थो, ठिओ निसण्णो निवण्णो वा ।। ३९ ।। - अर्थलेश: कालद्वारं व्याख्यातम्, अथासनविशेषद्वारमाह जयि गाथा || जीवानां यैव देहावस्था पर्यंकाद्यासनस्थितिः ध्यानोपरोधिनी ध्यानसाधनकारणं भवति । साधुः तदवस्थः तस्याम् अवस्थायां पर्यङ्काद्यासनरूपायां स्थितः सन् स्थित ऊर्ध्वस्थानेन निषन्नुपविष्टो वा निविण्णः शयितो वा ध्यायेद् ध्यानं कुर्यात् ।। ४० ।। - ध्यानशतकम् दीपिका अथासनद्वारम् - यैव निषण्णतादिरूपा देहावस्था, जिताऽभ्यस्ता, ध्यानस्योपरोधिनी पीडाकारिणी न स्यात्, सैवावस्था यस्य स तदवस्थः, स्थितः कायोत्सर्गे, निषण्ण उपविष्टः, निर्विण्णःशयितो वा ध्यायेत् ।। ३९ ।। अवचूर्णिः आसनमाह - यैव देहावस्था निषण्णादिरूपा जिताऽभ्यस्ता तथानुष्ठीयमाना, न ध्यानोपरोधिनी स्यात् नाधिकृतधर्म्मध्यानपीडाकारी स्यात्, स्थितः कायोत्सर्गेण ईषन्नतादिना, निषन्नः उपविष्टः वीरासनादिना, निर्विन्नः शयितो दण्डायतादिना वा विकल्पार्थे ।। ३९ ।। - - अवचूरिः - आसनविशेषमाह - जच्चि ० । । यैव देहावस्था निषण्णतादिरूपा जिता अभ्यस्ता तथाऽनुष्ठीयमाना न ध्यानोपरोधिनी भवति नाधिकृतधर्मध्यानपीडाकारी स्यादिति ध्यायेत् तदवस्थः स्थितः कायोत्सर्गेण ईषन्नतादिना निषण्ण उपविष्टो वीरासनादिना निविण्णः शयितो दण्डायतादिना वा विकल्पार्थः ।। ३९ ।। टीका आसनविशेषद्वारमाह- यैव देहावस्था जिताऽभ्यस्ता न ध्यानोपरोधिनी ध्यानावारिका भवति, तदवस्थो ध्यानं ध्यायेद् ध्यानं कुर्वीत । स्थितः कायोत्सर्गेण निषण्ण आसीनो वीरासनादिना, निवन्नः सुप्तो दण्डायतादिना ।। ३९ ।। सव्वासु वट्टमाणा, मुणओ जं देसकालचेट्ठासु । वरकेवलाइलाभं, पत्ता बहुसो समियपावा ।। ४० ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002560
Book TitleDhyanashatakam Part 2
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages350
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy