________________
परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः
४१ अर्थलेशः - तो जत्थ गाथा ।। ततः कारणाद् यत्र स्थाने मनोवाक्काययोगानां समाधानं समाध्यानं- समाधिप्रापणं भवेत् । ध्यानकर्तुः स देशः स्थानकविशेषो योग्यो भवति । किं लक्षणो देशः? भूतोपरोधरहितः भूतानि पृथ्व्यादयो जीवास्तेषामुपरोधो विनाशस्तेन रहित इत्यर्थः ।।३८ ।।
दीपिका - यत्र देशे मनोवचनकाययोगानां समाधानं स्वास्थ्यं भवेत् । ननु मनःसमाधिरस्तु, वाक्कायसमाधिभ्यां तु किम् ? तन्मयध्यानाभावात्, उच्यते, तयोः समाधिर्मनोयोगोपकारीति ध्यानं तदात्मकं स्यादेव, यथेदृग्वाग् वाच्येति ध्यात्वा वक्तुर्वाचिकं ध्यानम्, संलीनाङ्गस्याऽस्याऽयतनात्यागः कायिकम्। तथा यो भूतानामुपरोधः संघट्टनादिस्तद्रहितश्च, यथा स देशो ध्यायत उचितः ।।३७।।
अवचूर्णिः - आह- वाक्काययोगसमाधानमत्र क्वोपयुज्यते? उच्यते, तत्समाधानं मनोयोगोपकारकम्, ध्यानमपि तदात्मकं स्यादेव, यथा
‘एवंविहा गिरा मे वत्तव्वा एरिसि न वत्तव्वा । इअ वेआलिअवक्कस्स भासओ वाइअं झाणं ।। १।।' तथा'सुसमाहिअकरपायस्स अकज्जे कारणमि जयणाए ।
किरिआकरणं जं तं काइअझाणं भवे जइणो ।।२।।' भूतोपघातरहितः, भूतानि पृथिव्यादीनि उपरोधः तत्संघट्टनादिलक्षणस्तेन रहितो यः, तथा अनृतादत्तादानमैथुनपरिग्रहाद्युपरोधरहितश्च स देशो ध्यायत उचितः ।।३७ ।।
___अवचूरिः - तो ज० ।। ततो यत्र ग्रामादौ स्थाने समाधानं स्वास्थ्यं स्यान्मनोवाक्काययोगानाम् । आह - मनोयोगसमाधानमस्तु वाक्काययोगसमाधानं तत्र क्वोपयुज्यते, न हि तन्मयं ध्यानं भवत्यत्रोच्यते - तत्समाधानं तावन्मनोयोगोपकारकम्, ध्यानमपि च तदात्मकं स्यादेव, यथोक्तम् - __"एवंविहा गिरा मे वत्तव्वा एरिसी न वत्तव्वा । इअ वेआलिअवक्कस्स भासउ वाइअं झाणं ।।१।। तथा -
सुसमाहिअकरपायस्स अकज्जे करणंमि जयणाए । किरिआकरणं जं तं काइअझाणं तु भवे जइणो ।।२।। भूतानि पृथिव्यादीनि उपरोधस्तं घट्टनादिलक्षणस्तेन रहितः । एकग्रहे तज्जातीयग्रहणेऽनृतादत्तादानमैथुनपरिग्रहाद्युपरोधरहितश्च यः स देशो ध्यायत उचित इति शेषः ।।३७ ।। द्वार-२
टीका - यतश्चैवमत आह- भूतोपरोधरहित: भूतानां प्राणिनां उपरोध: उपघातस्तेन रहितः। उपलक्षणत्वादनृतादत्तादानमैथुनपरिग्रहोपघातरहितश्च । गतं देशद्वारम् ।। ३७ ।।
कालोऽवि सोचिय, जहिं जोगसमाहाणमुत्तमं लहइ ।
न उ दिवसनिसावेलाइनियमणं झाइणो भणियं ।।३८।। अर्थलेशः - देशद्वारं व्याख्यातम्, कालद्वारमाह कालो गाथा ।। ध्यानकर्तुः स एव कालो योग्यः स्याद् यत्र काले उत्तमं योगसमाधानं मनोवाक्कायव्यापाराणां समाधिप्रापणं लभते तु पुनः ध्यानकर्तुः
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org