SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ४० ध्यानशतकम् अश्वेभाधुपासकाः। चट्टाछात्रदासादयः। उद्भ्रामकाः - स्वैरिणः, आदिशब्दाद् याचकादयश्च, एते कुशीला उच्यन्ते । एतदवशीकृतयोगानां स्थानम् ।। ३५ ।। अवचूर्णिः - देश[द्वार]माह- नित्यमेव, न केवलं ध्यानकाले, कुशीला: द्यूतकारादयः, स्थान युवत्यादिव्यतिरिक्तशेषजनापेक्षया विगतजनं विजनम् ।।३५ ।। __ अवचूरिः - मूलद्वारं गतम्, देशमाह - निचं० ।। नित्यमेव न केवलं ध्यानकाले युवतिपशुनपुंसककुशीलपरिवर्जितं कुशीला द्यूतकारादयो यते: साधोः स्थानं युवत्यादिव्यतिरिक्तशेषजनापेक्षया विगतजनं विजनं भणितमहद्भिः । इदमेवंभूतं नित्यमेव विशेषतो ध्यानकाले परिणतो योगादिनाऽन्यत्र ध्यानस्याराधयितुमशक्यत्वात् ।।३५ ।। टीका - देशद्वारमाह- स्पष्टा ।। ३५।। थिरकयजोगाणं पुण मुणीण झाणे सुनिञ्चलमणाणं । गामंमि जणाइण्णे, सुण्णे रण्णे व ण विसेसो ।।३६।। अर्थलेशः - थिर गाथा ।। पुनर्मुनीनां ध्याने सुनिश्चलमनसां जनाकीर्णे लोकव्याकुले ग्रामे शून्यगृहे वा अरण्ये वा शून्यवनमध्ये विशेषो न भवति। किं विशिष्टानां मुनीनाम्? स्थिरकृतयोगानां निश्चलीकृतमनोवाक्कायव्यापाराणाम् ।।३७ ।। दीपिका - स्थिरा: संहननधृतिभ्याम्, तथा कृता योगा ज्ञानादिभावनादिव्यापाराः सत्त्वसूत्रतपोमुख्या वा यैस्ते अभ्यस्तयोगा इत्यर्थः । स्थिराश्च ते कृतयोगाश्च तेषाम्, मुनीनां ध्याने, सुष्ठु निश्चलमनसाम्, जनैराकीणे पूर्णे ग्रामे शून्येऽरण्ये वा न विशेषः ।। ३६ ।। __ अवचूर्णिः - स्थिराः संहननधृतिभ्यां बलवन्तः, कृताः अभ्यस्ताः योगा: ज्ञानादिभावनादिव्यापारा यैस्ते स्थिरकृतयोगास्तेषां, ग्रामे जनाकीणे शून्येऽरण्ये वा ।। ३६ ।। अवचूरिः - इत्थमपरिणतयोगादीनामुक्तमथ परिणतयोगादीनधिकृत्य विशेषमाह - थिर० ।। स्थिराः संहनन-मनोधृतिभ्यां बलवन्तः कृता अभ्यस्ता योगा ज्ञानादिभावनाव्यापाराः स च सूत्रतपप्रभृतयो यैस्ते तथा स्थिराश्च ते योगाश्च तेषां मुनीनां ध्याने धर्मध्याने सुनिश्चलमनसां स्थानं प्रति ग्रामे जनाकीर्णे शून्येऽरण्ये वा न विशेषः ।।३६ ।। टीका - इदमकृतध्यानाभ्यासानां स्थानमुक्तम्, कृताभ्यासानां त्वाह - स्थिरा धृतिसंहननाभ्यां बलवन्तः कृतयोगाः स्वभ्यस्तज्ञानादिभावनाव्यापारास्तेषां मुनीनां ध्याने सुनिश्चलमतीनाम् ।। ३६ ।। तो जत्थ समाहाणं, होज मणोवयणकायजोगाणं । भूओवरोहरहिओ, सो देसो झायमाणस्स ।। ३७ ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002560
Book TitleDhyanashatakam Part 2
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages350
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy