________________
परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः जीवः? सुविदितजगत्स्वभावः सुज्ञातजगत्स्वरूपः, अपरं निस्सङ्गः स्नेहरहितः, अपरं निर्भयः तथा निरासः तृष्णारहितः ।।३४।। .
दीपिका - सुष्टु विदितो ज्ञातो जगत्स्वभावोऽनित्यतादिरूपो येन, निःसङ्गो नीरागः निराशोऽतृष्णः, चशब्दादक्रोधादिः, य एवंविधो वैराग्यभावितमना भवति स खल्वज्ञानाद्युपद्रवरहितत्वाद् ध्याने सुनिश्चलो भवतीति गाथार्थः ।।३४ ।। ४-वैराग्यभावना
अवचूर्णिः - निराशंसश्च इहपरलोकाशामुक्तः, चशब्दात्क्रोधादिरहितश्च ।।३४ ।।
अवचूरिः - वैराग्यभावनामाह - सुवि० ।। सुविदितजगत्स्वभावः, निःसंगः, निर्भयो निराशश्चेहपरलोकाशाविमुक्तः चशब्दात् क्रोधादिरहितश्च य एवं वैराग्यभाविनमना स ध्याने सुनिश्चलः स्यात् ।।३४।।
टीका - वैराग्यभावनामाह - निस्सङ्गो विषयस्नेहरहितः, निर्भयः सप्तभयवर्जितः, निराशः इहपरलोकाशाविमुक्तः, शेषं स्पष्टम् । उक्ता भावनाः ।।३४।।।
निझं चिय जुवइपसूनपुंसगकुसीलवज्जियं जइणो ।
ठाणं वियणं भणियं, विसेसओ झाणकालंमि ।।३५।। अर्थलेशः - भावनाद्वारं व्याख्यातम्, देशद्वारमाह - निचं गाथा ।। यतेः साधोर्नित्यमपि युवतिपशुनपुंसककुशीलवजितं स्थानं भणितं भवति । किं विशिष्टं स्थानम् ? विजनं लोकरहितं ध्यानकाले विशेषतः । एवंविधं स्थानं भणितम् ।।३५ ।।
जूईय-रसोल-मेंठा वट्टा उब्भामगादिणो जे य ।
एए होंति कुसीला वज्जेयव्वा पयत्तेणं ।।६।। जूइय गाथा ।। एते कुशीला भवन्ति । साधुना एते यत्नेन परिवर्जयितव्याः । एते के? द्यूती द्यूतकारो युवतिर्वा । रसोला राज्ञो रसवतीकाराः, तत्र मांसादिसंस्कारादेते कुशीलाः। मिंठा हस्तिपालाः, चट्टा लेखशालिका ते हास्यशीला अतः कुशीलाः । उद्भ्रामकाः तालाकुट्टनकारिणः यद्वा नटविटा: इत्यादयो ये धर्मरहितास्ते कुशीलाः स्युः ।।३६ ।।
दीपिका - अथ देशद्वारम् - यतेनित्यमपि युवत्यादिवर्जितं विजनं स्थानं भणितम्, विशेषतो ध्यानकाले । तत्र कुशीला द्यूतिमुख्याः, उक्तं च,
'जूइयरसोलमिंठा, चट्टा उन्भामगाइणो जे य । एए हुंति कुसीला, वज्जेयव्वा पयत्तेणं'।१। द्यूतिनो - द्यूतकाराः, रसोला: - स्थानपाला आरक्षकाद्याः, रसोला: - कल्पपाला वा , मिंठा -
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org