SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ध्यानशतकम् अवचूर्णि: प्रशमादिना स्थैर्यादिना च गुणगणेनोपेतः प्रशमस्थैर्यादिगुणोपेतः, इत्थम्भूतः स्यादसम्मूढमनास्तत्त्वान्तरेऽभ्रान्तचितः ।। ३२ ।। ३८ अवचूरिः दर्शनभावनामाह संका० ।। शङ्कादिदोषरहितः प्रकर्षेण श्रमः प्रश्रमः खेदः स्वपरसमयतत्वाधिगमरूपः । स्थैर्यं जिनशासने निःकम्पता आदिशब्दात् प्रभावनादिग्रहः प्रश्रमस्थैर्यादय एव गुणगणास्तेनोपेताऽथवा प्रशमादिना स्थैर्यादिना च गुणगणेनोपेतः । इत्थंभूतः स स्यादसंमूढमना तत्त्वान्तरेऽसंभ्रान्तचित्तो दर्शनशुद्धयोक्तया क्व ? ध्याने ||३२|| टीका - दर्शनभावनामाह - प्रशमादिः प्रशमसंवेगनिर्वेदानुकम्पाऽऽस्तिक्यरूपः, स्थैर्यं जिनशासने निश्चलत्वं तदादिर्गुणगणस्तेनोपेतः, दर्शनशुद्धया ध्यानेऽसम्मूढमना भवति ।। ३२ ।। नव्वकम्माणायाणं, पोराणविणिज्जरं सुभायाणं । चारित्तभावणाए, झाणमयत्तेण य समेइ ।। ३३ ।। अर्थलेशः नव गाथा ।। चारित्रभावनया नवकर्म्मानादानं नवकर्म्मणामग्रहणं स्यात् । पुरातनानां भवान्तरसञ्चितानां कर्म्मणां निर्जरणं क्षपणं स्यात् । शुभानां कर्म्मणाम् आदानं ग्रहणं स्यात् । अपरं धर्म्मध्यानमयत्नेन उपक्रमं विनापि उपैति ||३३|| दीपिका - चारित्रभावनया नवकर्म्मणामनादानमग्रहणम्, पुराणानां विनिर्जरं क्षपणम्, शुभानि पुण्यकर्माणि सातवेद्यादीनि तेषामादानं ग्रहणम्, तथा अयत्नेन ध्यानं समेति लभते ।। २३ । । ३ चारित्रभावना अवचूर्णिः चारित्रभावनया सर्वसावद्ययोगनिवृत्तिरूपक्रियाभ्यासेन, ध्यानं नवकर्मानादानादि चायत्नेन समेति प्राप्नोति ।। ३३ ।। - अवचूरिः - चारित्रभावनामाह नव० ।। नवकर्मानादानम्, पुराणविनिर्जरां चिरन्तनक्षपणाम्, शुभं सातसम्यक्त्वादि तस्यादानं चारित्रभावनया सर्वसावद्ययोगनिवृत्तिरूपक्रियाभ्यासेन ध्यानं चशब्दान्नवकर्मानादानादि चायत्नेन समेति प्राप्नोति ||३३|| टीका चारित्र भावनामाह नवानां कर्मणामनादानं यस्मात् तत् तथा पुराणविनिर्जरम्, शुभानां पुण्यशातादीनां चादानम्, चारित्रभावनया ध्यानमयत्नेन समेति प्राप्नोतीत्यर्थः ।। ३३ ।। - सुविदियजगरसभावो, निस्संगो निब्भओ निरासो य । वेरग्गभावियमणो, झाणंमि सुनिलो होइ ।।३४।। अर्थलेश: - सुवि गाथा ।। जीवो वैराग्यभावितमनाः ध्याने सुनिश्चलो भवति । किं विशिष्ट Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002560
Book TitleDhyanashatakam Part 2
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages350
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy