SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः ३७ अवचूरिः - आद्यद्वारमाह - पुव० ।। पूर्वं ध्यानात्प्रथमं कृतोऽभ्यास आसेवनारूपो येन स तथा काभिर्भावनाभिः करणभूताभिः ध्यानस्य धर्मस्य योग्यतामुपैति । ताश्च भावना ज्ञानदर्शनचारित्रवैराग्यनियताः परिच्छिन्नाः ।।३०।। टीका - आद्यद्वारमाह- स्पष्टा ।।३०।। णाणे णिञ्चब्भासो, कुणइ मणोधारणं विसुद्धिं च । नाणगुणमुणियसारो झाइ सुनिञ्चलमईओ ।।३१।। अर्थलेशः - नाणे गाथा ।। ज्ञाने नित्याभ्यासः क्रियमाणो मनोधारणां मनःस्थिरताम् अन्यञ्च विशुध्यं मनसः शुध्यं करोति । ततोऽनन्तरं ज्ञानगुणज्ञातसारः सुनिश्चलमति: धर्मध्यानं ध्यायति ।।३१।।। दीपिका - ज्ञाने श्रुतज्ञाने नित्याभ्यासोऽशुभचिन्तारोधेन, मनोधारणं विशुद्धिं च सूत्रार्थयोः कुरुते एव । ज्ञानेन गुणानां जीवाजीवाश्रितानां चेतनादीनां पर्यायाणां च क्रमभाविनां ज्ञातसारस्तत्त्वं नित्यानित्यादिरूपं येन स तादृक्, ततः सुनिश्चलमतिर्ध्यायति ।। ३१ ।। १-ज्ञानभावना अवचूर्णिः - ज्ञाने श्रुतज्ञाने, नित्यं सदा, अभ्यास: आसेवनालक्षणः, करोति मनसो धारणम् अशुभव्यापारनिरोधेनावस्थानम्, तथा विशुद्धिं च सूत्रार्थयोः, चशब्दाद्भवनिर्वेदं च, एवं ज्ञानगुणेन ज्ञानमाहात्म्येन ज्ञातः सारो विश्वस्य येन स तथाविधः, सुनिश्चला सम्यग्ज्ञानतोऽन्यथाप्रवृत्तिकम्परहिता मतिर्यस्य स तथाविधः ।।३१।। ___ अवचूरिः - ज्ञानभावनामाह - नाणे० ।। ज्ञाने श्रुतज्ञाने नित्यं सदा अभ्यास आसेवनालक्षणः करोति। मनसो धारणमशुभव्यापारनिरोधेनाऽवस्थानं तथा विशुद्धिं च विशोधनं सूत्रार्थयोरिति गम्यम् । चशब्दाद्भवनिर्वेद च । एवं ज्ञानगुणेन ज्ञानमाहात्म्येन ज्ञातः सारो विश्वासेन स तथाविधः । ततश्च पश्चाद् ध्यायति सुनिश्चला सम्यग्ज्ञानतोऽन्यथाप्रवृत्तिकम्परहिता मतिर्यस्य स तथाविधः सन् ।।३१।। टीका - ज्ञानभावनामाह- ज्ञाने श्रुतज्ञाने कृताभ्यासः करोति मनसो धारणम् अशुभव्यापारनिरोधेनावस्थानम् । विशुद्धिं च सूत्रार्थयोः। ज्ञानगुणेन ज्ञात: सारो विश्वस्य येन स तथा। ततो ध्यायति सुनिश्चलमतिकः ।। ३१ ।।। संकाइदोसरहिओ, पसमथेन्जाइगुणगणोवेओ । होइ असंमूढमणो, दंसणसुद्धीए झाणंमि ।।३२।। अर्थलेशः - संकाइ गाथा ।। जीवो दर्शनशुद्धया धर्मध्याने असम्मूढमना अमोहितमना भवति। किं लक्षणो जीवः? शङ्कादिदोषरहितः तथा प्रशमस्थैर्यादिगुणगणोपेतः ।। ३२ ।। दीपिका - प्रश्रमः स्वान्यशास्रे प्रशमो वा तेन स्थैर्यादिगुणगणैश्चोपेतो दर्शनशुद्ध्या ध्यानेऽसम्मूढमना भवति ।। ३२ ।। २ - दर्शनभावना Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002560
Book TitleDhyanashatakam Part 2
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages350
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy