________________
३६
ध्यानशतकम् अर्थलेशः - झाणस्स गाथा ।। तत्तो गाथा ।। मनि: एतस्य धर्मध्यानस्य एतानि द्राराणि ज्ञात्वा धर्मध्यानं ध्यायेत्। एतानि कानि ? १-भावना २-देशं ३-कालं ४-तथा आसनविशेषम् ५आलम्बनं ६-च अन्यत् क्रमं ७-ध्यातव्यं ८-ये च ध्यातारः ९-ततो अनुप्रेक्षा १०-लेश्या ११-लिङ्गम् १२-अन्यत्फलं ततो अनन्तरं-धर्मध्यानानन्तरं तत्कृतयोग: तेन धर्मध्यानेन कृतो योगो मुनिः शुक्लं ध्यानं ध्यायति ।।२८-२९ ।।
दीपिका - अथ धर्मध्यानस्य द्वारगाथे-- १ ध्यानस्य भावना: २ देशं ३ कालम् ४ आसनम् ५ आलम्बनं ६ क्रमं ७ तथा ध्यातव्यं ८ ये च ध्यातारः ९ ततोऽनुप्रेक्षा ध्यानोपरमादनुभाविन्योऽनित्यत्वाद्यालोचनारूपाः १० लेश्या: ११ लिङ्गं १२ फलं १३ च ज्ञात्वा मुनिर्धर्मं ध्यायेत् । 'तक्क०' तत्कृतयोगो धर्मध्यानकृताभ्यासस्ततः शुक्लध्यानं ध्यायेत ।। २८-२९ । ।
अवचूर्णिः - अथ धर्मध्यानाभिधित्सया द्वारगाथाद्वयमाह- भावना ज्ञानाद्या ज्ञात्वेति योगः, आलम्बनं वाचनादि, क्रमं मनोनिरोधादि, ध्यातव्यमाज्ञादि ।।२८ ।। अनुप्रेक्षा ध्यानोपरमकालभाविन्योऽनित्यत्वाद्यालोचनरूपाः, तत्कृतयोगः धर्मध्यानकृताभ्यासः ।।२९।।
अवचूरिः - अथ धर्मध्यानाभिधित्सयादौ द्वारगाथाद्वयमाह - झाण ।। तत्तो० ।। ध्यानस्य भावना ज्ञानाद्याः १, देशं तदुचित्तम् २, कालम् ३, आसनविशेषम् ४, आलम्बनं वाचनादि ५, क्रमं मनोनिरोधादि ६, ध्यातव्यं ध्येयम्, ७, ये च ध्यातारोऽप्रमादादियुक्ताः ८ ।। ततोऽनुप्रेक्षा ध्यानोपरमकालभाविन्योऽनित्यत्वाद्यालोचनारूपाः ९, लेश्या १०, लिङ्गम् ११, फलं १२, ज्ञात्वा धर्मध्यानं ध्यायेन्मुनिः । तत्कृतयोगो धर्मध्यानकृताभ्यासस्ततः पश्चात् शुक्लं शुक्लध्यानं ध्यायेत् ।।२८-२९।।
टीका - अथ धर्मध्यानम्, तत्रादौ द्वारगाथाद्वयमाह- ध्यानस्य भावना ज्ञानाद्याः। देशं कालं तथाऽऽसनविशेष ध्यानोचितम्, आलम्बनं वाचनादि, क्रमं मनोनिरोधादि, ध्यातव्यमाऽऽज्ञादि, ये च ध्यातारोऽप्रमत्ता:, ततोऽनुप्रेक्षा ध्यानकालेऽनित्यत्वाद्यालोचनरूपा, लेश्या: शुद्धाः, लिङ्गं श्रद्धानादि, फलं स्वर्गादि, एतत्ज्ञात्वा धर्मध्यानं ध्यायेन्मुनिः। तत्कृतयोगो धर्मध्यानकृताभ्यासः ततः शुक्लम् ।। २८-२९ । ।
पुवकयब्भासो भा-वणाहिं झाणस्स जोग्गयमुवेइ ।
ताओ य नाण-दसण-चरित्त-वेरग्गजणियानियता]ओ ।। ३०॥
अर्थलेशः - पुब्ब गाथा ।। जीवः पूर्वं भावनाभिः कृताभ्यासो ध्यानस्य योग्यतामुपैति । ताश्च भावनाः १-ज्ञान २-दर्शन ३-चारित्र ४-वैराग्याः । एतैश्चतुर्भिः प्रकारैः जनिता भवन्ति ।।३०।।
दीपिका - ध्यानात्पूर्वं भावनाभिः कृताभ्यासो ध्यानस्य योग्यतामुपैति । ताश्च ज्ञान-दर्शनचारित्र-वैराग्यजनिताः ।।३० ।। तद्यथा
अवचूर्णिः - पूर्वं ध्यानात् कृतोऽभ्यास: आसेवनालक्षणो येन स तथाविधः, भावनाभिः ।।३०।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org