SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ३५ परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः नयनोत्खननादिषु हिंसाधुपायेष्वसकृदेवं प्रवर्त्तत इति नानाविधदोषः । महापद्गतोऽपि स्वतः महापद्गतेऽपि च परे आमरणादसंजातानुतापः कालसौकरिकादिवद् अपि तु असमाप्तानुतापानुशयपर इत्यामरणदोषः । तेष्वेव हिंसानुबन्ध्यादिषु बाह्यकरणोपयुक्तस्य सत उत्सन्नादिदोषा लिङ्गानि । बाह्यकरणशब्देनेह वाक्कायौ गृह्येते ततश्च ताभ्यामपि तीव्रमुपयुक्तस्य ।।२६।। टीका - अथ तल्लिङ्गान्याह- उत्सनबहुलनानाविधामरणदोषा दोषशब्द: प्रत्येकं योज्यः । उत्सन्नदोषः उत्सनमनुपरतं हिंसादौ प्रवृत्तेः। बहुलदोषो बहुलं प्राचुर्येण पुनः पुनः तत्र प्रवृत्तेः । नानाविधदोषो नानाविधेषु त्वक्तक्षणनयनोत्खननादिषु हिंसाधुपायेष्वसकृत् प्रवृत्तेः। आमरणदोषो हिंसादिषु कृतेष्वामरणादपि नानुतापो यस्य कालसौकरिकस्येव स तथा । तेष्वेव हिंसादिषु बाह्यकरणोपयुक्तस्य वाक्काययोगाभ्यां प्रसक्तस्य ।।२६।। परवसणं अभिनंदइ, निरविक्खो निद्दओ निरणुतावो । हरिसिज्जइ कयपावो, रोद्दज्झाणोवगयचित्तो ।।२७।। अर्थलेशः - परवसणं गाथा ।। रौद्रध्यानोपगतचित्तो जीव: परव्यसनं परकष्टम् अभिनन्दति स्तौति, निरपेक्षः स्यात् कस्यापि चिन्तां न करोतीत्यर्थः, तदा[था] निर्दय: स्यात्, अपरं निरनुताप: स्यात्पापं कृत्वा पश्चात्तापं न करोतीत्यर्थः, अपरं कृतपापः सन् हृष्यति ।।२७।। ।। रौद्रध्यानं समाप्तम् ।। दीपिका - परस्य व्यसनं कष्टम् अभिनन्दति प्रशंसति, परव्यसने निरपेक्षः, निर्दयः, निरनुतापः पश्चातापरहितः, कृतपापो हृष्यति ।। २७ ।। रौद्रध्याने प्रथमभेदे १-वध २-वेध ३-बन्धन ४-दहन ५-अङ्कन ६-मारणानि ६ । द्वितीये १ पिशुन २ असभ्य ३ असद्भूत ४ भूतघाताः । तृतीये तुर्ये एकैको भेदः, एवं १२, करणादित्रिगुणिता: ३६, ते चतुःकषायैः १४४, एते रागद्वेषमोहै: ४३२, एते कालत्रयेण गुणिताः १२९६ । उक्तं रौद्रम् । अवचूर्णिः - किञ्च- अभिनन्दति बहुमन्यते, तथा निरपेक्षः इहान्यभविकापायरहितः ।। २७ ।। अवचूरिः - पर० ।। परस्य व्यसनमापत् तत् अभिनन्दति बहुमन्यते, तथा निरपेक्ष इहान्यभविकापायभयरहितः, निर्दयः, निरनुतापः, तुष्यति कृतपापः सन् अमूनि च लिङ्गानि ।।२७ ।। टीका - किञ्च- स्वयं कृतपापो हृष्यति सिंहमारकवत् । उक्तं रौद्रध्यानम् ।। २७ ।। [अथ धर्मध्यानम्] झाणस्स भावणाओ, देसं कालं तहाऽऽसणविसेसं । आलंबणं कमं झाइयव्वयं जे य झायारो ।।२८।। तत्तोऽणुप्पेहाओ, लेस्सा लिंगं फलं च नाऊणं । धम्मं झाइज्ज मुणी, तक्कयजोगो तओ सुक्कं ।।२९।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002560
Book TitleDhyanashatakam Part 2
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages350
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy