________________
३४
ध्यानशतकम् स्वामिद्वारेणाह - अविरताः सम्यग्दृष्टयश्च इतरे वा, देशासंयताः श्रावकास्ते एव जनास्तेषां मनांसि तैः संसेवितमधन्यमश्रेयस्करम् ।।२३।।
`एयं० ।। कावो० ।। तीव्रसंक्लिष्टा अतिसंक्लिष्टाः ।।२४-२५ ।। टीका - इदमुपसंहरन्नाह - तथा स्पष्टे ।। २३-२४ ।। रौद्रध्यानिनो लेश्या आह - स्पष्टा ।। २५ ।। लिङ्गाई तस्स उस्सण्णबहुलनाणाविहामरणदोसा । तेसिं चिय हिंसाइसु, बाहिरकरणोवउत्तस्स ।। २६।।
अर्थलेशः - लिंगाई गाथा ।। तस्य रौद्रध्यानस्य चत्वारि लिङ्गानि स्युः। कानि ? १-उत्सन्नदोषः उत्सन्नं प्राय: प्रतिदिवसम् एतानि सत्ववधादीनि चिन्तयति । तदा २-बहुलानि कदाचित् द्वे, कदाचित् त्रीणि, कदाचित् चत्वार्यपि चिन्तयति । ३-नानाविधदोषि नानाप्रकारै अमुकं जीवममुकप्रकारेण वधेन बन्धादिना ताडयिष्यामि इति चिन्तयति । ४-आमरणदोषो यावज्जीवो मरणकालेऽपि रौद्रध्यानं न मुञ्चति । तेषु च हिंसादिषु मनसा चिन्तितस्य बाह्यकरणोऽपयुक्तस्य - बाह्यजीववधादिकरणतत्परस्य एतद् रौद्रध्यानं स्यात् ।।२६।।
दीपिका - दोषशब्दः प्रत्येकं सम्बध्यते । १-उत्सन्नदोषः, २-बहुलदोषः ३-नानाविधदोषः, ४- आमरणदोषः । तत्र १-उत्सन्नमनुपरतं हिंसादीनामन्यतरस्मिन् दोषे प्रवर्त्तते इत्युत्सत्रदोषः । २-. सर्वेष्वप्येवं प्रवर्त्तते इति बहुलदोषः । ३-नानाविधेषु त्वक्तक्षणाक्ष्युत्खननादिहिंसाधुपायेषु असकृदप्येवं प्रवर्त्तते नानाविधदोषः । ४-महदापगतोऽपि स्वतो महदापद्गतेऽपि चान्यस्मिन्नामरणं पश्चातापं नाधत्ते स आमरणदोषः । एते दोषास्तस्य रौद्रध्यायिनो लिङ्गानि, किम्भूतस्य तेष्वेव हिंसादिषु आदिशब्दान्मृषावादादिषु बाह्यकरणाभ्यां वाक्कायाभ्यामुपयुक्तस्य प्रवृत्तस्य ।। २६।।
अवचूर्णिः - तस्य रौद्रध्यायिनः, दोषशब्द: प्रत्येकं योज्य:, ततो हिंसानुबन्ध्यादीनामन्यतरस्मिन् प्रवर्त्तमान उत्सन्नमनुपरतं बाहुल्येन प्रवर्त्तत इत्युत्सन्नदोषः, सर्वेष्वपि चैवं प्रवर्त्तत इति बहुलदोषः, नानाविधेषु त्वक्तक्षणनयनोत्खननादिषु हिंसाधुपायेषु असकृदप्येवं प्रवर्तत इति नानाविधः दोषः, महदापद्गतो[ऽपि स्वतः महादापद्गते]ऽपि च परे आमरणादसञ्जातानुताप इत्यामरणदोषः, तेष्वेव हिंसादिषु हिंसानुबन्ध्यादिषु बाह्यकरणोपयुक्त सत उत्सन्नादिदोषलिङ्गानि, बाह्यकरणशब्देनेह वाक्कायौ गृह्येते, ततश्च ताभ्यामपि तीव्रमुपयुक्तस्य ।। २६ ।।
___अवचूरिः - लिंगा० ।। लिङ्गानि चिह्नानि तस्य रौद्रध्यायिनः उत्सन्न-बहुल-नानाविधामरणदोषा इत्यत्र दोषशब्दः प्रत्येकं संबध्यते । तत्र हिंसानुबन्ध्यादीनामन्यतरस्मिन् वर्तमान उत्सन्नमनुपरतं बाहुल्येन प्रवर्त्तते इत्युत्सत्रदोषः । सर्वेष्वपि चैवमेव प्रवर्त्तत इति बहुलदोषः । नानाविधेषु त्वक्तक्षण
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org