SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः ३३ अवचूरिः - चतुर्थमाह सद्दा० ।। शब्दादयश्च ते विषयाश्च तेषां साधनं कारणं च तद्धनं च तत्संरक्षणे परायणं तथाऽनिष्टं सतामनभिलषणीयम् सर्वेषामभिशङ्कनेन न विद्मः कः किं करिष्यतीत्यादिलक्षणेन तस्मात्सर्वेषां यशाशक्त्योपघात एव श्रेयानित्येवं परोपघातेन कलुषाः कषायास्तैश्चाकुलं व्याप्तं यत्तथा चित्तं तद् रौद्रध्यानम् ।।२२।। टीका - चतुर्थमाह- शब्दादिविषयसाधनं धनसंरक्षणपरायणमनार्यं सर्वेभ्यो येभ्योऽभिशङ्कनं तेषां परेषामुपघातो हननपरिणामस्तेन कलुषमाकुलं चित्तं रौद्रध्यानम् ।। २२ ।। इय करणकारणाणुमइविसयमणुचिंतणं चउब्भेयं । अविरयदेसासंजयजणमणसंसेवियमहण्णं ।। २३ ।। एयं चउव्विहं, रागदोसमोहांकियस्स जीवस्स । रोद्दज्झाणं संसारवद्धणं नरयगइमूलं ।। २४ ।। कावोयनीलकालालेसाओ तिव्वसंकिलिट्ठाओ । रोज्झाणोवगयस्स, कम्मपरिणामजणियाओ ।। २५ ।। अर्थलेश:: - ईय गाथा ।। इति अधन्यमनुत्तमं चतुर्भेदं रौद्रध्यानं स्यात् । किं विशिष्टं रौद्रध्यानम् ? करणकारणानुमतिविषयानुचिन्तनम् अपरमविरतदेशविरतजनमनसंसेवितम् ।।२३।। रागद्वेषमोहाङ्कितस्य जीवस्य एतत् रौद्रध्यानं चतुर्विधं संसारवर्धनं नरकगतिमूलं भवति ।। २४ ।। रौद्रध्यानोपगतस्य १- कापोत, २- नील, ३- कृष्णाख्यास्तिस्रो लेश्या: तीव्रसङ्क्लिष्टा अत्यन्ताशुभपरिणामाः, कर्म्मपरिणामजनिताः स्युः ।। २५ ।। - दीपिका - एवं चतुर्भेदमनुचिन्तनं करणादिविषयं रौद्रम्, देशाः संयताः श्राद्धाः । अधन्यं पापं एतद्रौद्रध्यानं चतुर्विधमित्यादि प्राग्वत्, 'नरयगइ' नरकगतिः ।। २३-२४ ।। कापोतनीलकृष्णलेश्यास्तीव्रसंक्लिष्टा अतिसंक्लिष्टाः स्युः ।। २५ ।। अवचूर्णि: - एवं करणं स्वयमेव कारणमन्यैः कृतानुमोदनमनुमतिरेता एव विषयो यस्य तत्करणकारणानुमतिविषयम्, अनुचिन्तनं पर्यालोचनम्, चतुर्भेदं हिंसानुबन्ध्यादि रौद्रध्यानम्, अविरताः सम्यग्दृष्टयः इतरे च देशसंयताः श्रावकास्त एव जनास्तेषां मनांसि तैः संसेवितम्, अधन्यमश्रेयस्करम् ।। २३ ।। तीव्रसङ्क्लिष्टाः ।। २४-२५ ।। अवचूरिः इय० एवं करणं स्वयमेव कारणमन्यैः कृतानुमोदनमनुमतिरेता एव विषयो यस्य तत्करणकारणानुमतिविषयमनुचिन्तनं पर्यालोचनं हिंसानुबन्ध्यादि चतुर्भेदं रौद्रध्यानम् । इ 1 - Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002560
Book TitleDhyanashatakam Part 2
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages350
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy