________________
३२
ध्यानशतकम
तह तिव्वकोहलोहाउलस्स भूओवघायणमणजं ।
परदव्वहरणचित्तं, परलोयावायनिरविक्खं ।। २१ ।। अर्थलेशः - तह गाथा ।। जीवस्य परद्रव्यहरणं प्रति चित्तपरिणमनं तृतीयो रौद्रध्यानभेदः स्यात्। किं विशिष्टं चित्तपरिणमनम्? अनार्यं विरूपम् । किं विशिष्टस्य जीवस्य ? तथा लोकप्रसिद्धप्रकारेण तीव्रक्रोधलोभाकुलस्य । किं विशिष्टं चित्तपरिणमनम् ? भूतोपघातनं जीवादिविनाशपरिणामरूपम् । तथा परलोकापायनिरपेक्षं परलोकनरकादिदुःखचिन्तारहितम्। तृतीयो रौद्रध्यानभेद: ।।२१।।
दीपिका - भूतानां जीवानामुपघातनं क्लेशकारकम् अनार्यं पापमयम्, किं तत् ? परद्रव्यहरणचित्तं परलोकेऽपायः कष्टं तन्निरपेक्षम् ।। २१ ।। स्तेयानुबन्धिनामा तृतीयो भेद: ३।
अवचूर्णिः - तृतीयमाह - तीव्रक्रोधलोभाकुलस्य जन्तोः, भूतानामुपहननं भूतोपहननम्, अनार्यम्, परद्रव्यहरणचित्तम्, रौद्रध्यानम् ।। २१ ।।
अवचूरिः - तृतीयमाह - तह० ।। तथा तीव्रक्रोधलोभाकुलस्य जन्तोरिति गम्यम् । भूतानामुप सामीप्येन हननं भूतोपहननमनार्यं किं तदेवंविधमित्यत आह - परेषां द्रव्यं सचित्तादि तद्विषयं हरणचित्तं किंभूतम् ? परलोकापायनिरपेक्षं रौद्रध्यानं गम्यम् ।।२१।। टीका - तृतीयमाह - तथेति समुच्चये । परलोकापायो नरकगत्यादिः ।। २१ ।।
सद्दादिविसयसाहणधणसंरक्खणपरायणमणिटुं ।
सव्वाभिसंकणपरोवघायकलुसाउलं चित्तं ।। २२ ।। अर्थलेशः - सद्दादि गाथा ।। एवंविधं चित्तं चतुर्थो रौद्रध्यानभेदः स्यात्। किं विशिष्टं चित्तम् ? शब्दादिविषयसाधनधनसंरक्षणपरायणं शब्दादिपञ्चविषयानां साधनानि उपकरणानि, यथाक्रमं १वीणादीनि, २- प्रासादादीनि, ३- कर्पूरादीनि, ४- मोदकादीनि, ५. स्त्र्यादीनि एतेषु, अपरं धनसंरक्षणतत्परम् । तथा अनिष्टं विरूपम्, अपरं सर्वाभिशङ्कनपरोपघातकलुषाकुलं सर्वाभिशङ्कनं सर्वत्राविश्वासः, परोपघातः परस्य विरूपकरणम्, अनेन प्रकारेण कलुषो दुष्टपरिणामस्तेन आकुलं व्याप्तमेषश्चतुर्थो रौद्रध्यानस्य भेदः ।।२२।।।
दीपिका - शब्दादिविषयानां साधनं हेतुः, तञ्च तद्धनं च तत्संरक्षणपरायणमनिष्टम् । 'सव्वा०' न वेद्मि कः किं कर्ता, तस्मात्सर्वेषां घातः श्रेयान् इति सर्वाभिशङ्कनेन परोपघातेन च कलुषाः कषायास्तैश्चाकुलं चित्तम् ।। २२ ।। विषयसंरक्षणनामा चतुर्थो भेदः ४।
अवचूर्णिः - चतुर्थमाह - शब्दादयश्च ते विषयाश्च ते, साधनं कारणं तञ्च तद्धनं च, तत्संरक्षणे परायणम्, तथाऽनिष्टं सताम्, सर्वेषामभिशङ्कनेन न विद्मः कः किं करिष्यतीत्यादिलक्षणेन, तस्मात्सर्वेषामुपघात: श्रेयानित्येवं परोपघातेन च, तथा कलुषाः कषायास्तैराकुलं व्याप्तं यत्तथा, चित्तं तत् रौद्रध्यानम् ।। २२ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org