________________
परिशिष्टम् ३,
ध्यानशतकस्यार्थलेशादिटीकाः
पिसुणासब्भासब्भूयभूयघायाइवयणपणिहाणं । मायाविणोऽइसंधणपरस्स पच्छन्नपावस्स ।। २० ।।
अर्थलेशः - पिसुणा गाथा । मायाविनो जीवस्य असत्याख्याननामकं द्वितीयं रौद्रध्यानं स्यात् । किं विशिष्टं रौद्रध्यानम् ? पिशुनासभ्यासद्भूतभूतघातादिवचनप्रणिधानं पिशुनं परदोषवचनम् । असभ्यंदुर्वाक्कथनम्, असद्भूतं त्रिधा, अभूतोद्भावनं १- यथा सर्वग आत्मा, २-भूतनिन्हवो यथा नास्ति आत्मा, ३ - विपरीतकथनं गामश्वं वदतः । भूतघातो यथा अमुकं जीवं विविधदुष्टवाक्यैः पीडयिष्यामि इत्यादिषु दुष्टवचनपरिणामरूपम् । किं विशिष्टस्य जीवस्य ? अतिसन्धानपरस्य वञ्चनतत्परस्य, तथा प्रच्छन्नपापस्य । रौद्रध्यानस्य द्वितीयो भेदः ।। २० ।।
दीपिका - पिशुनमनिष्टसूचकम् । असभ्यमवाच्यम् । असद्भूतं व्यवहारात्त्रिधा - अभूतोद्भावनं यथा १ - सर्वग आत्मा, २- भूतनिह्नव नास्त्यात्मा, ३- अर्थान्तराख्यानं गाम् अश्वमित्यादि वदतः भूतानां घातो यत्र तत् छिन्द्धि भिन्द्धीत्यादि वचनं प्रति अप्रवृत्तस्यापि ध्यानम् । मायाविनो वणिगादेरतिसन्धना वञ्चना तत्परस्य, प्रच्छन्नपापस्य कूटप्रयोगकारिणः, यद्वा धिग्जातिककुतीर्थिकादेरन्येषां पुरतोऽगुणमपि स्वं गुणवन्तं वदतः, यतोऽगुणः स्वं गुणित्वं वक्ति स महान् प्रच्छन्नपाप: ।। २० ।। मृषानुबन्धिनामा द्वितीयो भेदः २ ।
अवचूर्णिः - द्वितीयमाह - पिशुनमनिष्टसूचकम् । असभ्यं जकारमकारादि । असद्भूतं त्रिधा अभूतोद्भावनं- १-सर्वगत आत्मेत्यादि, २-भूतनिह्नवो- नास्त्यात्मेत्यादि, ३ - गामश्वमित्यादि ब्रुवतोऽर्थान्तराभिधम्, भूतघातादि छिन्धि भिन्द्धि व्यापादयेत्यादि । तत्र पिशुनादिवचनेष्वप्रवर्त्तमानस्यापि प्रवृत्तिं प्रति प्रणिधानं रौद्रध्यानम्, मायाविनो वणिजादेः, तथाऽतिसन्धानपरस्य परवञ्चनाप्रवृत्तस्य तथा प्रच्छन्नपापस्य कूटप्रयोगकारिणः
।। २० ।।
३१
-
अवचूरिः - द्वितीयभेदमाह - पिसु० ।। अनिष्टस्य सूचकं पिशुनम्, सभायां साधु सभ्यं न सभ्यमसभ्यं जकारमकारादि, असद्भूतमनृतं तच त्रिधा - अभूतोद्भावनं सर्वगतोऽयमात्मेत्यादि, भूतनिह्नवो नास्त्येवात्मेत्यादि, गामश्वमित्यादि वदतोऽर्थान्तराभिधानम्, भूतानां सत्त्वानामुपघातो यस्मिंस्तद्भूतोपघातं छिन्द्धि भिन्द्धि व्यापादयेत्यादि । आदिशब्दः प्रतिभेदं स्वगतानेकभेददर्शनार्थः । तत्र पिशुनादिवचनेष्वप्रवर्त्तमानस्यापि प्रवृत्तिं प्रति प्रणिधानं दृढाध्यवसानं रौद्रध्यानमिति गम्यम् । किं विशिष्टमतः मायाविनो वणिजादेः तथा अतिसंधनपरस्य परवञ्चनाप्रवृत्तस्य तथा प्रच्छन्नपापस्य कूटप्रयोगकारिणः ।। २० ।।
टीका द्वितीयमाह - पिशुनम् अनिष्टसूचकम् । असभ्यं प्रतीतम् । असद्भूतं त्रिधा१- अभूतोद्भावनं सर्वग आत्मेत्यादि, २-भूतनिह्नवो नास्त्यात्मेत्यादि, ३ - अर्थान्तराभिधानं गामश्वं ब्रुवतः, भूतघातादिवचनं छिन्द्धि - भिन्द्धीत्यादि । तेषां प्रणिधानं रौद्रध्यानं मायाविनः अतिसन्धनं वञ्चनं तत्परस्य । प्रच्छन्नपापस्य कूटप्रयोगकारिणः ।। २० ।।
Jain Education International 2010_02
For Private & Personal Use Only
-
-
www.jainelibrary.org