SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ३० [अथ रौद्रध्यानम् ] सत्तवहवेहबंधणडहणंकणमारणाइपणिहाणं । अइकोहग्गहघत्थं, निग्विणमणसोऽहमविवागं ।। १९ ।। अर्थलेशः सत्त गाथा ।। निर्घृणमनसो निर्दयचित्तस्य जीवस्य एवंविधं रौद्रध्यानं स्यात् । किं विशिष्टं रौद्रध्यानम् ? सत्ववधवेधबन्धनदहनाङ्कनमारणादिप्रणिधानं सत्त्वानां वधो विनाशः, वेधो नासिकादीनाम्, बन्धनं रज्वादिना, दहनं तप्तशलाकया, अङ्कनमङ्कपातना, मारणं दण्डादिना इत्यादिषु परिणामकरणम् । तथा अतिकोपग्रहग्रस्तं तथा अधमविपाकं रौद्रध्यानस्य प्रथमो भेदो जीववधादिविषयो ज्ञेयः ।। १९ ।। दीपिका रौद्रं हिंसानृतास्तेयविषयसंरक्षणानुबन्धिभेदाच्चतुर्धा क्रमेणाह सत्त्वा जीवास्तेषां वधादिप्रणिधानम् । तत्र वधस्ताडनम्, वेधो नासिकादौ, बन्धनं रज्वादिना, दहनमग्निना, अङ्कनं लाञ्छनम्, मारणं घातः, आदितो गाढपरितापपाटनादि, एषु प्रणिधानम् अकुर्वतोऽपि ( करणं प्रति ) दृढं ध्यानम्, अतिक्रोधग्रहग्रस्तं क्रोधादानान्मानादयोऽपि ज्ञेयाः, निर्घृणमनसो निर्दयमनसोऽथमो विपाको नरकफलो यस्य । हिंसानुबन्धिनामा प्रथमो भेदः १ ।। १९ ।। - अवचूर्णिः - अथ रौद्रं चतुर्धा, १ -हिंसानुबन्धि, २ - मृषानुबन्धि, ३- स्तेयानुबन्धि, ४ - विषयसंरक्षणानुबन्धि च । तत्राद्यमाह सत्त्वाः पञ्चेन्द्रियास्तेषां वधः करकशलतादिभिः ताडनम् वेधः आरादिभिः, बन्धनं रज्ज्वादिभिः, दहनमुल्मुकादिभिः, अङ्कनं लाञ्छनं श्वशृगालचरणादिभिः, मारणं प्राणवियोजनमसिशक्तयादिभिः, आदिशब्दादागाढपरितापनादिग्रहः, एतेषु प्रणिधानम् अकुर्वतोऽपि करणं प्रति दृढाध्यवसानम्, रौद्रध्यानम्, अतिक्रोधग्रहस्तम् अतिक्रोधग्रहणाच्च मानादयोऽपि गृह्यन्ते, निर्घृणमनसः सतः, अधमो नरकादिप्राप्तिलक्षणो विपाको यस्य तत्तथाविधम् ।। १९ ।। - ध्यानशतकम् अवचूरिः अथ रौद्रं चतुर्धा हिंसानुबन्धि १ स्तेयानुबन्धि २, मृषानुबन्धि ३, विषयसंरक्षणानुबन्धि ४ । तत्राद्यमाह सत्त० ।। सत्त्वा एकेन्द्रियादयस्तेषां वधस्ताडनं करकशलतादिभिर्वेधो नासिकादिवेधनमाराधंदिभिः, बंधनं रज्जुनिगडादिभिः, दहनमुल्मुकादिभिः, अङ्कनं लाञ्छनं श्वशृगालचरणादिभिः, मारणं प्राणवियोजनमसिशक्त्यादिभिः, आदिशब्दादागाढपरितापनादिग्रहः । एतेषु प्रणिधानमकुर्वतोऽपि करणं प्रति दृढाध्यवसानमित्यर्थः, रौद्रध्यानमिति गम्यम् । अतीवोत्कटो यः क्रोधः स एवऽपायहेतुत्वाद् ग्रह इव ग्रहस्तेन ग्रस्तमभिभूतं क्रोधग्रहणान्मानादयोऽपि गृह्यते । कस्य ? निर्घृणमनसः सतोऽधमो नरकादिप्रप्तिलक्षणो विपाकः परिणामो यस्य तत्तथाविधम् ।। १९ । । - - टीका उक्तमार्त्तध्यानम्, रौद्रमाह तदपि चतुर्धा हिंसानृतस्तेयानुबन्धविषयसंरक्षणभेदात् । आद्यभेदमाह - सत्त्वाः प्राणिनस्तेषां वधवेधबन्धनदहनाङ्कनमारणादिप्रणिधानम्, अतिक्रोधग्रहग्रस्तस्येदम् अतिक्रोधग्रहग्रस्तं रौद्रध्यानमधमविपाकं नरकप्रदम्, निर्घृणमनसः प्रकृत्या निर्दयचेतसः ।। १९ ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002560
Book TitleDhyanashatakam Part 2
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages350
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy