SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् - ३, ध्यानशतकस्यार्थलेशादिटीकाः अर्थलेश: सद्दाइ गाथा ।। एवंविधो जीव आर्त्तध्याने वर्त्तते । किं लक्षणो जीवः ? शब्दादिपञ्चविषयेषु गृद्ध आसक्तः, तथा सद्धर्मपराङ्मुखः, अपरं प्रमादपरजीवः । किं कुर्वन् ? जिनमतमनवेक्षन्नविचारयन् ।।१७।। दीपिका - शब्दादिविषयगृद्धो लम्पटः, सद्धम्म जिनधर्म्मस्तस्मिन् पराङ्मुखः प्रमादपरो जीवो जिनमतमनपेक्षमाण आर्त्तध्याने वर्त्तते ।। १७ ।। अवचूर्णिः किञ्च जिनमतम् आगमरूपम्, तदनपेक्षमाणः ।। १७ ।। - सद्दाइविसयगिद्धो, सद्धम्मपरम्मुहो पमायपरो । जिणमयमणवेक्खंतो, वट्टइ अट्टंमि झाणंमि ।। १७ ।। अवचूरिः किञ्च सद्दा० ।। शब्दादिविषयगृद्धः सद्धर्मपराङ्मुखः प्रमादपरो जिनमतमनपेक्षमाणो वर्त्तते आर्त्तध्याने । ।१७।। टीका किञ्च स्पष्टा ।। १७ ।। - - - तदविरयदेसविरयापमायपरसंजयाणुगं झाणं । सव्वप्पमायमूलं, वज्रेयव्वं जइजणेणं ।। १८ ।। अर्थलेशः तद गाथा ।। बुधैस्तदार्त्तध्यानं प्रयत्नेन वर्जनीयम् । किं विशिष्टमार्त्तध्यानम् ? अविरतदेशविरतप्रमादपरसंयतानुगतम् । अपरं सर्वप्रमादमूलम् ।। १८ ।। आर्त्तध्यानं समाप्तम् । दीपिका तदार्त्तध्यानमविरतदेशविरतप्रमादपरसंयतानामनुगं पृष्ठतो लग्नं विद्यते । न तु अप्रमत्तादीनामाश्रितमित्यर्थः ।। १८ ।। आर्त्तध्यानं समाप्तम् । २९ - अवचूर्णिः आर्त्तध्यानं यदनुगतं यदनहं च स्यात्तदाह- तद् आर्त्तध्यानमविरताः मिथ्यादृष्टयः सम्यग्दृष्टयश्च, देशविरताः श्रावकाः, प्रमादपरसंयतास्ताननुगच्छतीति, नैवाप्रमत्तसंयतानामिति भावः, यतिजनेन श्राद्धजनेन च ।। १८ ।। Jain Education International 2010_02 अवचूरिः - आर्त्तध्यानं यदनुगतं यदनर्हं च स्यात्तदेतदाह - तद० ।। तदार्त्तध्यानमविरता मिथ्यादृष्टयः सम्यग्दृष्टयश्च, देशविरताः श्रावकाः प्रमादपराश्च ते संयताश्च प्रमादपरसंयतास्ताननुगच्छतीत्यविरतदेशविरतप्रमादपरसंयतानुगम् । इदं च स्वरूपतः सर्वप्रमादमूलं यतोऽतो वर्जयितव्यं यतिजनेनोपलक्षणत्वात् श्रावकजनेन च ।। १८ ।। टीका तत्कस्य स्यादित्याह - तदार्त्तध्यानं वर्जयितव्यं यतिजनेन उपलक्षणत्वात् श्रावकजनेन च ।। १८ ।। For Private & Personal Use Only www.jainelibrary.org
SR No.002560
Book TitleDhyanashatakam Part 2
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages350
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy