________________
૮
ध्यानशतकम् शोचनं त्वश्रुपूर्णनयनस्य दैन्यम्, परिदेवनं क्लिष्टभाषणम्, ताडनम् उरः-शिरःकुट्टनकेशलुञ्चनादि, एतानि लिङ्गानि चिह्नानि, अमूनि च इष्टानिष्टवियोगावियोगवेदनानिमित्तानि इष्टवियोगनिमित्तानि तथानिष्टावियोगनिमित्तानि वेदनानिमित्तानि च ।। १५ ।। "
__ अवचूरिः - आर्त्तध्यायिनो लिङ्गान्याह- तस्स० ।। तस्यार्त्तध्यायिन आक्रन्दनं महता शब्देन रोदनम्, शोचनं चाश्रुपूर्णनयनस्य दैन्यम्, परिदेवनं पुन: क्लिष्टभाषणम्, ताडनमुरःशिर:कुट्टनकेशलुञ्चनादि एतानि लिङ्गानि चिह्नानि, अमूनि च इष्टानिष्ट-वियोगावियोगवेदनानिमित्तानि इष्टवियोगनिमित्तानि, अनिष्टावियोगनिमित्तानि वेदनानिमित्तानि च ।।१५।।
टीका - आर्त्तध्यानलिङ्गान्याह - आक्रन्दनं महता शब्देन रोदनम्, शोचनं साश्रुनेत्रस्य दैन्यवचनम्, परिदेवनं क्लिष्टभाषणम् ।।१५।।
निंदइ य नियकयाइं, पसंसइ सविम्हओ विभूईओ ।
पत्थेइ तासु रजइ, तयजणपरायणो होइ ।। १६ ।। अर्थलेशः - निंदइ गाथा ।। आर्तध्यानवान् निजकृतानि कार्याणि निन्दति । परविभूतीदृष्ट्वा सविस्मयः सन् मत्सरेण प्रशंसति । ताः परविभूती: प्रार्थयति । तासु परविभूतिषु रज्यन्ते रागं करोति । मम एवंविधा विभूत्यो भवन्त्विति । अपरं तदर्जनपरायणो भवति ।।१६।।
दीपिका - निजकृतान्यल्पफलविफलानि कार्याणि निन्दति, प्रशंसति स्तौति च सविस्मयः परविभूती:, प्रार्थयते च परविभूती: - परभॊस्तास्विति प्राप्तासु ऋद्धिषु रज्यति । तदर्जने तस्या ऋद्धेरर्जने परायणस्तत्परो भवति ।। १६ ।। १५ भेदा आद्यभेदे, रोगादीनां त्रैकाल्यवियोगचिन्तनेन द्वितीये ३, तृतीये इष्टानां विषयानां सद्वेदनायाश्च त्रिकालेन १८ भेदाः, तूर्ये निदाने ९ भेदाः, एवं सर्वे ४५ । .
___अवचूर्णिः - किञ्चान्यत्- निन्दति निजकृतानि अल्पफलविफलानि कर्मशिल्पकलावाणिज्यादीनि, तथा प्रशंसति सविस्मयो विभूती: परसम्पदः, तथा प्रार्थयते परविभूती:, तासु प्राप्तासु, तदर्जनपरायणः स्यात् ततश्चैवम्भूतोऽप्यार्त्तध्यायी ।।१६ ।।
. अवचूरिः - किञ्चान्यत् - निंद० ।। निन्दति च निजकृतान्यात्मकृतानि अल्पफलविफलानि कर्मशिल्पकलावाणिज्यादीनि इति गम्यम् । तथा प्रशंसति सविस्मयो विभूतीः परसंपदः तथा प्रार्थयते परविभूतीः तथा प्राप्तासु तासु रज्यते विभूतिषु रागं गच्छति, तथा तदर्जनपरायणः स्यात् ततश्च य एवंभूतोऽसौऽप्यार्त्तध्यायी ।।१६।।
___टीका - किञ्चान्यत्- निजकृतानि वाणिज्यादीनि, विभूतयः परश्रियः तथा ताः प्रार्थयते, तासु प्राप्तासु रज्यते, तदर्जनपरायणो भवति। सोऽप्यार्त्तध्यायी ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org